उद्देश्यम्

विश्विद्यालय का उद्देश्य

श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्विद्यालयस्य स्थापनायाः प्रमुखोद्देश्यानि निम्नलिखितानि सन्ति-

  1. शास्त्रीयपरम्परायाः संरक्षणम्।
  2. संस्कृते निबद्धानां विभिन्नशास्त्राणाम् अनुवादकार्यम्।
  3. आधुनिके परिप्रेक्ष्ये समस्यानां समाधानाय संस्कृतभाषायां विरचितप्राचीनशास्त्राणाम् औचित्यस्थापनम्।
  4. अध्यापकेभ्यः आधुनिके एवं शास्त्रीये ज्ञाने गहनाध्ययनार्थं साधनोपलब्धिकारणम्।
  5. विश्विद्यालयः विशिष्टं स्थानं प्राप्नुयात् तदर्थं तत्संबद्धेषु सर्वेषु क्षेत्रेषु प्रवीणतासंपादनम्।
  6. उपर्युक्तानाम् उद्देश्यानां प्राप्तये प्रयासं कुर्वन् विश्वविद्यालयः अधोनिर्दिष्टेषु क्षेत्रेषु सततं कार्यं कुर्वाणो वर्तते-
  7. पारम्परिकसंस्कृतवांग्मयस्य अतिविशिष्टशाखनां ज्ञानस्य प्रचारप्रसारः।
  8. संस्कृताध्यापकानां प्रशिक्षणाय साधनां सौलभ्यता अपि च संस्कृतशिक्षासम्बद्धप्रासंगिकपक्षेषु अनुसंधानम्।
  9. संस्कृताध्यापनसम्बद्धानाम् एशियाः विभिन्नभाषाणां एवं साहित्यानां गहनाध्ययनम् एवं गवेषणाय सुविधानां उपस्थापनं येषु पाली, इरानी, तिब्बती, मंगोली, चीनी, जापानी इत्यादयः भाषाः एवं साहित्यानि प्रमुखानि सन्ति।
  10. अध्ययन-अध्यापनाय विभिन्नविषाणां पाठ्यक्रमनिर्धारणम्, भारतीयसंस्कृतेः एवं मूल्यानां विशेषावधानं तथा च संस्कृतम् एवं संबद्धविषयेषु परीक्षासंचालनम्।
  11. संस्कृतस्य मौलिकग्रन्थानां टीकानाञ्च अनुवादः। तत्सम्बद्धसाहित्यानां प्रकाशनम्, प्रकाशितानाम् एवं अप्रकाशिसामग्रीणां संवर्धनम्।
  12. शोध-पत्रिकाणाम् (रिसर्च जर्नल) एवं शोधोपयोग्यनुसन्धान-प्रपत्राणाम्, विषयसूचीनां तथा च ग्रन्थ-सूच्यादीनां प्रकाशनम्।
  13. पाण्डुलिपीनां संकलनम्, संरक्षणम् एवं प्रकाशनम्, राष्टियसंस्कृतपुस्तकालयस्य एवं संग्रहालयस्य निर्माणम्। संस्कृपाण्डुलिपिषु प्रयुक्तलिपीनां प्रशिक्षणप्रबन्धनम्।
  14. संस्कृते आधुनिकतकनीकिसाहित्येन सह मौलिकसंस्कृतग्रन्थानां सार्थकनिर्वचनकदृष्ट्या आधुनिकविषयेषु शिक्षणसाधनानां प्रस्तुतिः।
  15. पारस्परिकज्ञानवर्धनाय आधुनिकानाम् एवं परम्परागतविदुषां मध्ये अन्तःक्रियायाः संवर्धनम्।
  16. शास्त्र-परिषदाम्, संगोष्ठीनाम्, सम्मेलनानाम् एवं कार्यशालादीनाम् आयोजनम्।
  17. शिक्षसंस्थानाम् उपाधयः, प्रमाणपत्रीयपाठ्यक्रमान् विश्विद्यालयस्य उपाधिसमकक्षीया मान्यता।
  18. विभागानाम् एवं संकायानां स्थापना तथा च विश्विद्यालयस्य उद्देश्यपूर्तये आवश्यकानां मण्डलानाम् एवं समितीनां निर्माणम्।
  19. नियमों के अन्तर्गत छात्रवृत्तियों, अध्येतावृत्तियों, पुरस्कारों व पदकों का संस्थापन एवं वितरण।
  20. विश्विद्यालयस्य उद्देश्येन से सह पूर्णतः उत अंशतः समानोद्देश्यवतां संगठनानाम्, समितीनां संस्थानां वा सहयोगः एवं तेषाम्/तासां सदस्यता तथा सहभागिता।
  21. विश्विद्यालयस्य एकस्य अथवा समस्तस्य उद्देश्यस्य पूर्तये प्रासंगिकानाम्, आवश्यकानाम् उत सहायकानाम् क्रियाकलापानां सम्पादनम्।