परीक्षा नियंत्रक

Controller of Examination

Dr. Tarkeshwar Nath Giri

डॉ. तारकेश्वरनाथगिरि (गोस्वामी) महोदया: द्वात्रिंशदुत्तरद्विसहस्रतमे वर्षे (2023) जुलाईमासस्य विंशतितमे (20) दिनाङ्के नवदेहलीस्थस्य श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य (केन्द्रीयविश्वविद्यालयस्य), परीक्षा-नियन्त्रकपदं समलङ्कृतवन्त:।

अलीगढ़स्थमुस्लिमविश्वविद्यालयात् (AMU) स्नातक-स्नातकोत्तरयो: शिक्षाम् अवाप्य नवदेहलीस्थश्रीजवाहरलालनेहरूविश्वविद्यालयत: एम्.फिल., पी.एच.डी. इत्युपाधिञ्च सम्प्राप्तवन्त:। एतदतिरिच्य मेरठस्थचौधरीचरणसिंहविश्वविद्यालयत: एल.एल. बी उपाधिमपि समधिगतवन्त:।

एतेषां महोदयानां पुस्तकरत्नद्वयं भारतीय-सामाजिक-विज्ञान-अनुसन्धानपरिषद: (ICSSR) आर्थिकानुदानेन प्रकाशितम्। एतदतिरिच्य विभिन्नासु राष्ट्रिया-अन्ताराष्ट्रिया-पत्रिकाषु नैका: शोधनिबन्धा: प्रकाशिता: सन्ति। 'नोएडास्थराष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम्
(NIOS), सिक्किमस्थ-बोर्ड-ऑफ-ओपन-स्कूलिंग एण्ड स्किल-एजुकेशन (BOSSE)' इति संस्थयो: अध्ययन-सामग्रीरूपेण अध्ययनसामग्र्य: अनेकेषु अध्यायेषु लिखिता: प्रकाशिताश्च वर्तन्ते।

एभि: महोदयै: वियना (ऑस्ट्रिया)-डबलिन (आयरलैंड)-लन्दन (ब्रिटेन) जकार्ता (इण्डोनेशिया) इत्यादिक्षेत्रेषु समायोजितायाम् अन्ताराष्ट्रियसम्मेलन-संगोष्ठ्यादिषु स्वीयं भागं गृहीत्वा शोधप्रबन्ध: सम्प्रस्तुत:।

शैक्षणिककार्येषु एतेषां यथा दक्षता विद्यते तथैव प्राशासनिककार्येष्वपि। राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थाने (NIOS) भारतसर्वकारस्य केन्द्रीय-शिक्षामन्त्रालये च निदेशकपदमलंकृत्य (प्रभारी) व्यावसायिकशिक्षारूपेण स्वीयं सफलं योगदानं प्रदत्तम्। अष्टाविंशतिवर्षात्मककार्यकाले विभिन्नं पदं सुशोभितमेभि: गिरिमहोदयै:।

उपनिदेशकपदे संयुक्तनिदेशकपदे (शैक्षणिकम्) च स्थित्वा राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानस्य (NIOS) गुवाहाटी-पटना-प्रयागराज-चण्डीगढ़-देहल्यादि (NCR) क्षेत्रीयकेन्द्रेषु प्रायश: एकादशवर्षं निदेशकपदमलंकृत्य स्वीयं दायित्वं सम्पादितम्। यत्र लक्षाधिकानां छात्राणां परीक्षाया: समायोजने विशिष्टानुभव: सम्प्राप्त:।

गिरिमहोदयै: राष्ट्रिय-खाद्य-प्रौद्योगिकी-उद्यमिता एवं प्रबंधनसंस्थाने (NIFTEM)मानितविश्वविद्यालये, उद्योगमन्त्रालयाधीनस्थ-केन्द्रीयखाद्य-प्रसंस्करणमिति राष्ट्रस्य महत्त्वपूर्णसंस्थाने च कुलसचिवपदमलंकृत्य (Registrar) समुचितं दायित्वं सम्पादितम्। सम्प्रति गिरिमहोदया: नवदेहलीस्थे श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालये केन्द्रीयविश्वविद्यालये) परीक्षानियन्त्रकपदमलंकृत्य महत्त्वपूर्णं दायित्वं निर्वहन्ति। एतेषां महानुभावानां सततं ध्येयमस्ति 'मूल्याङ्कने शुचिता' इति।

Attachment File: