School of Education

शिक्षाशास्त्रसङ्कायस्य अन्गत्वेन शिक्षाशास्त्रविभागः श्रीलालबहादुरशास्त्राराष्ट्रियसंस्कृतविश्वविद्यालयः एकः प्रमुखः विभागोऽस्ति। विभागस्य लक्ष्यमस्ति यत् संस्कृतशिक्षाक्षेत्रे शिक्षणाधिगमप्रणालिषु सामर्थ्यविकासाय प्रतिबद्धाः कौशलसम्पन्नाः आत्मविश्वासान्विताः शिक्षकाः अध्यापकाश्च सज्जीकर्तव्याः इति। अस्य प्रयोजनस्य प्राप्तये विभागस्य मुख्यध्येयं संस्कृतशिक्षणाधरितानां शिक्षणाधिगमप्रणालीनां प्रभाविनियोजनस्य अभिकल्पनस्य, क्रियान्वयनस्य, नवचारिकार्यक्रमाणां संवर्द्धनं सहैव अन्तर्विद्यान्वितशोधोपागमानां प्रयोज्यतायाः उपादेयतायाः च निश्चीकरणं चास्ति। विभागेन शिक्षाशास्त्रि-शिक्षाचार्य-विशिष्टाचार्य-विद्यावारिधिपाठ्यक्रमाणां सञ्चालनं विध्यते। शिक्षाशास्त्रि-शिक्षाचार्य-पाठ्यक्रमौ NCTE.2009 एवञ्च संशोधितद्विवर्षीय-शिक्षाशास्त्रि- NCTE अधिनियमः .2014 इत्यनयोः अनुरूपोवर्तते तथा च NCTE मान्यता विभूषितो वर्तते। अत्र प्रवेशः Sikhsa Shastri Entrance Test एवञ्च Sikhsa Achrya Entrance Test उभयोः स्तरे उभाभ्यां परीक्षाभ्यां जायते। या च परीक्षा विद्यापीठस्तरे जायते। एवमेव विद्यावारिधिपरीक्षा Vidya Varidhi Entrance Test अपि विध्यते। अस्य पाठ्यक्रमस्य षडमासिकपाठ्यक्रमकार्यक्रमः यू.जी.सी. 2016 इति नियमानुसारेण जायते। एकवर्षीयविशिष्टाचार्यशिक्षापाठ्यक्रमः (एम.फिल.) सत्राऽर्द्वये सञ्चाल्यते। यदर्थं प्रवेशपरीक्षा विद्यापीठेन सञ्चाल्यते। साम्प्रतमंय विभाग उत्कृष्टभौतिकसाधनैः सौविध्यैश्च सुसज्जितोऽस्ति। शिक्षासङ्कायस्य छात्रेभ्यः व्यावहारिकज्ञानप्रदानाय विभागीयपुस्तकालयः, संसाधनकक्षः, शैक्षिकप्रौद्योगिकीकक्षः, शिक्षामनोविज्ञानं, सामाजिकविज्ञानं, भाषाप्रयोगशाला चेत्यादीनि संसाधनानि समुपलब्धानि सन्ति। विभागोऽयं सुयोग्यैः सुप्रशिक्षतैः अनुभाविभिः अध्यापकैः सम्पन्नोऽस्ति। यैः च स्वस्वविषयेषु विशेषज्ञताम् उत्कृष्टप्रावीण्यं च संवर्द्धयते। प्रत्येकं शैक्षिकसत्रो विभागीयायाः ‘शिक्षाज्योतिः’ - पत्रिकायाः प्रकाशनं जायते। यत्र विभागीयपाठ्यक्रमेषु अध्ययनेभ्यः विद्यार्थिभ्यः रचनात्मकाभिव्यक्तये अवसरः प्रदीयते । संकायविकासाय शिक्षासम्बद्धज्वलन्तसमसामायिकविषयेषु विभागेन प्रतिवर्षं राष्ट्रियसंगोष्ठी, कार्यशाला विशिष्टव्याख्यानानि च यथासमयं समायोज्यन्ते । यत्र समाहूताः विषयविशेषज्ञाः विद्वांसः विभागीयाः प्राध्यापकाः च NCTE, UGC इत्यनयोराधरेण पाठ्यक्रमम् अद्यतनं प्रासंगिक च कुर्वन्ति। शिक्षाचार्य-विशिष्टाचार्य-विद्यावारिधिस्तरेषु औपचारिकरूपेण क्रियमाणानि शोधकार्याणि मुख्यतः शिक्षादर्शनं, शिक्षामनोविज्ञानं, प्राचीनभारतीयशिक्षा, इत्यादीनां सन्दर्भे शास्त्रासमीक्षादिविषयेषु केन्द्रिताः भवन्ति। मानवसंसाधनविकासमन्त्रालयस्य 2017 तमे वर्षे ‘पण्डितमदनमोहनमालवीयराष्ट्रियशिक्षकशिक्षणमिशन्’ इत्यस्यान्तर्गत्वेन शिक्षणाधिगमकेन्द्रं स्थापितम्। यच्च भाषाशिक्षणस्य संवर्द्धनाय कृतसङ्कल्पम् अस्ति। तथा च यथासमयं शिक्षकप्रशिक्षणकार्यक्रमाणाम् आयोजनं करोति। 2018 तमे वर्षे विश्वविद्यालयस्य अयं विभागः राष्ट्रियसंसाधनकेन्द्रं (NRC) एवञ्च सङ्कायानुबोधन (FIP) कार्यक्रमकेन्द्ररूपेण नामाङ्कितमस्ति। यस्यान्तर्गतत्वेन SWAYAM एवञ्च MOOCS मञ्चेषु ऑनलाइनलर्निंग अधिगमहेतवे व्याख्यानानां ध्वनिचित्रमुद्रणं (रिकॉर्ड) सञ्जातमस्ति ।