परीक्षा-अनुभागस्यपरिचयः

परीक्षानुभाग:

विश्विद्यालयस्य परीक्षानुभागः अन्तिमसत्रार्धपरीक्षायाः तथा च विभिन्नशैक्षणिकपाठ्यक्रमेषु प्रवेशाय प्रवेशपरीक्षायाः आयोजनं करोति। अयमनुभागः विभिन्नेषु विषयेषु / पाठ्यक्रमेषु तथा च शास्त्री (बी. एड.), बी.ए. (योग), शिक्षाशास्त्री (बी. एड.), आचार्यः (एम्. ए.), एम्.एड. (योगः), शिक्षाचार्यः (एम्.एड.). विशिष्टाचार्यः (एम्.फिल.), विद्यावारिधिः (पी एच. डी.), पार्ट टाइम पोस्ट ग्रेजुएट डिप्लोमा / डिप्लोमा / प्रमाणपत्रीयपाठ्यक्रमः इत्यादीनां सत्रीयपरीक्षासु उपस्थितछात्राणां मूल्यांकनमपि आयोजयति।

कार्याणि एवं गतिविधयः -

परीक्षानुभागः सत्रार्धपरीक्षाभिः सह आन्तरिकमूल्यांकने छात्राणां प्रदर्शनस्य मूल्यांकनाय उत्तरदायी वर्तते। विश्विद्यालयस्य निर्णयानुसारं षाण्मासिकपरीक्षाः वर्षे वारद्वयं, क्रमश: अप्रैल/मई अपि च नवम्बर/दिसम्बर मासेषु आयोज्यन्ते। प्रतिषाण्मासं 75% उपस्तिथिं ये पूरयन्ति छात्राः तेभ्यः परीक्षायां भागं वोढुं प्रवेशपत्रं दीयते।

अयं विभागः प्रतिसङ्कायम् आन्तरिकमूल्याङ्कनं प्राप्नोति अपि तत्सम्बद्धविषयान् छात्रालेखे प्रदर्शयति। षाण्मासिकान्तपरीक्षायां विभागोऽयं तत्सम्बद्धसङ्कायप्रमुखानाम् अनुमत्या नियमितपाठ्यक्रमाय अपि च अंशकालिकपाठ्यक्रमाय डेट-शीट सज्जीकरोति।

अयं विभागः शोधछात्रेभ्यः ‘वाइवा वोसे’ इत्यस्य आयोजनं करोति अपि च शोधपरिषदः स्वीकृत्युत्तरं अन्तिमप्रमणपत्रं उद्घोषणस्य अधिचूनमामुद्घोषयति। परिणामानाम् एकत्रीकरणस्य तद्घोषणस्य च दायित्वमपि अस्य विभागस्य वर्तते। परीक्षार्थिनाम् अङ्कपत्राणां प्रमाणपत्राणां च सत्यापनमपि अनेनैव विभागेन उद्घोषितो भवति।

परीक्षाविभागः प्रत्येकं सङ्कायं विभागं वा सर्वविषयानां प्रश्नपत्रसज्जतायाः परीक्षायाः च सुचारुरूपेण सञ्चालनस्य व्यवस्थां करोति। विभिन्नमूल्याङ्कनकर्तृभिः कृतस्य मूल्याङ्कनस्य आधारेण परीक्षापरिणामः सङ्कलितः भवति, तदुत्तरञ्च उपयुक्त-अधिकारिणामनुमोदनोत्तरं परीक्षापरिणामः घोषितः भवति।

दीक्षांतसमारोहस्य आयोजनं सफलछात्रेभ्यः उपाधयः, ’डिप्लोमा’ एवं च प्रमाणपत्रप्रदानाय प्रतिवर्षं भवति।