अयमिहाचार्यदेवेन्द्रप्रसादमिश्रः श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालये (केन्द्रीयविश्वविद्यालये) स्वात्मगुणसम्पदा वेदविभागाध्यक्षत्वमाचार्यत्वञ्च युगपज्जुषमाणोऽपि प्रशासननैपुण्यात् 22-08-2023 इति दिनाङ्कात् कुलानुशासकत्वमपि भूषयति। अयं हि दिष्ट्या प्रथियशस्कस्य पण्डितश्रीवासुदेवमिश्रस्य प्रपौत्रोब्रह्मसायुज्यंगतस्य पण्डितश्रीप्रभुनाथमिश्रस्य पौत्रो ब्रह्मभावमुपेतस्य भागवतधर्मपरायणस्य सद्गुणालयस्य गृहावस्थितस्यापि भक्त्याविरक्त्या विलसितस्य पितुः पण्डितश्रीनन्दकुमारमिश्रस्य भक्तिप्रीत्यनुवृत्तिशीलादिसम्पन्नाया वात्सल्यमूर्तेरिव जनन्याश्च भाग्यप्रकर्षात् सत्पुत्रः कुलक्रमागतमाभिजात्यं चरितार्थयति। गुणविभूत्यार्यमिश्रत्वमात्मनोबिभ्राणः श्रीदेवेन्द्रप्रसादमिश्र आर्यावर्त्तस्य हृद्भागस्यैव मध्यप्रदेशस्य रीवासम्भागीये सीधीमण्डालान्तर्गतचुरहटविधानसभाक्षेत्रे देवनदशोणभद्रतटे भितरीत्याख्ये ग्रामे सदाचारपरायणे विप्रान्वये 25-12-1976 इति दिनाङ्के जनिमलभत। कुलपरम्परामनुधावन्नयं बाल्यादेव प्रारम्भिकीं माध्यमिकीं च शिक्षां स्वग्राम एवावाप्य यथाकालं संस्कृतजगत्यात्मानं प्रावीविशत्। अनुदिनं समेधमानविद्यावैभवोऽवधेशसिंहविश्वविद्यालयाद् वेदाचार्योपाधिं, हिन्दीसंस्कृतभाषयोः स्नातकोत्तरोपाधिं तत एव विद्यावारिधिं विद्यावाचस्पत्युपाधिञ्चाधिगत्य प्रयागस्थाद् हिन्दीसंस्कृतसम्मेलनात् संस्कृतमहामहोपाध्यायेति मानदोपाधिं चावाप्नोत् ।
यथाकालम् उन्नतिपथारूढ़ोऽसौ श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयीयवेदविभागे 02-07-2007 दिनाङ्कात् क्रमशः सहायकाचार्यसहाचार्याचार्यपदानि विभूष्य सम्प्रति वेदविभागाध्यक्षत्वं निपुणं निभालयति। वेदे वैदिकसाहित्ये हिन्दीसंस्कृतसाहित्ये च विशेषज्ञतां दधानस्यास्य महती विविधग्रन्थरचनासमृद्धिः सारस्वतसपर्यापरत्वं प्रमाणयति। कात्यायनश्रौतसूत्रे, कात्यायनशुल्बसूत्रे सम्पादनसहितया हिन्दीव्याख्यया शुक्लयजुर्वेदीय-गर्भाधानादिषोडशसंस्कारपद्धति- विमर्शस्य सम्पादनेन यजुर्वेदे वैश्विकचिन्तनमितिनामकस्य ग्रन्थविशेषस्य लेखनेन नन्दकुमारचरिताख्यस्य चम्पूकाव्यस्य रचनया षाण्मासिक्यावेदाङ्गवीथीनाम्न्या शोधपत्रिकायाः सम्पादनेन च स्वसारस्वतसाधनासातत्यं ख्यापयति। एतदतिरिक्तं पञ्चाशदधिकाः शोधनिबन्धाः राष्ट्रियास्वान्ताराष्ट्रियासु पत्रपत्रिकासु प्रकाशिताः, शताधिकेषु राष्ट्रियसंगोष्ठीसम्मेलनादिषु भागं गृहीतवतोऽस्य शोधपत्रवाचनं तत्र–तत्र विश्वविद्यालये प्रातिनिध्यञ्चेति सर्वविदितमेव ।
एतदीयशोधमार्गनिर्देशने सप्त शोधच्छात्राः शोधोपाधिमलभन्त सम्प्रति च सन्ति पञ्च शोधकार्यं कुर्वाणाः।
इदमीयविद्यासाधनया एष महानुभावः 2015-2016 वर्षे मध्यप्रदेशसर्वकारीयं श्रेष्ठकृत्यै व्यासपुरस्कारं शिक्षाक्षेत्रीयमुल्लेखनीयं योगदानमभिलक्ष्य मध्यप्रदेशशासनतः सम्मानपत्रमधिगतवान् । 2017 वर्षे चास्मै काशीस्थया अखिलभारतीयविद्वत्परिषदा वेदक्षेत्रे महनीयकार्यमालक्ष्य महर्षियाज्ञवल्क्यपुरस्कारः प्रादायि।
वेदविद्याया विशेषज्ञतया राष्ट्रियाख्यातिमधिगतस्यास्य सम्प्रति कुलानुशासकत्वं वेदविभागाध्यक्षत्वञ्च युगपद् धारयत आन्तरिकगुणवत्ताश्वासनप्रकोष्ठस्य समितेः सदस्यत्वेन च विश्वविद्यालयीय-विविधगतिविधिनां तद्भावियोजनानां च परिकल्पनया निहितदायित्वं साफल्येन निर्वहति ।
आचार्यमिश्रो विश्वविद्यालयीयपाठ्यक्रमाणामध्ययनाध्यापनक्रमं द्रढयितुं स्वयोगदानेन सहानुसन्धानक्रमं समेधयति। अयं केन्द्रीयाणां राज्यस्तरीयाणां च विश्वविद्यालयानां विविधसमितीनां परिषदां चोपवेशनेषु प्रामुख्येन आमन्त्र्यते। स्वकीयैः क्रियाकलापैः समन्वयप्रकृत्या च सहकर्मिषुच्छात्रेषु च आदरमावहति ।