आंतरिकगुणवत्ता-आश्वासनप्रकोष्ठस्य परिचयः


Devi Prasad Tripathi
प्रो. देवी प्रसाद त्रिपाठी
निदेशक (आईक्यूएसी सेल)
22.08.2023 से अग्रिम आदेश तक

निष्पादनमूल्यांकनस्य, मूल्यांकनस्य मान्यतायाः तथा च उच्चतरशिक्षासंस्थानानां गुणवत्तोन्नयनाय स्वकार्ययोजनायाः अनुसरणे, एन.ए.ए.सी. इत्यस्य प्रस्तावो वर्तते यत् प्रत्येकं मान्यताप्राप्तसंस्थानमान्यतोत्तरं गुणवत्तानिर्वाहोपायरूपेण एकस्य आंतरिक-गुणवत्ताश्वासनप्रकोष्ठस्य (आई.क्यू.ए.सी.) स्थापनं कर्तव्यम्। यतोहि गुणवत्तावृद्धिः एका सततप्रक्रियात्वात्, आई.क्यू.ए.सी. संस्थानस्य प्रणाल्याः एकं महत्वपूर्णम् अङ्गं भविष्यति एवं गुणवत्तावृद्धेः अपि च निर्वहनीयतायाः लक्ष्यप्राप्तेः दिशि कार्यं करिष्यति। आई.क्यू.ए.सी. इत्यस्य मुख्यकार्यं संस्थानानां समग्रनिष्पादने सतर्कता, एकरूपता एवम् उत्प्रेरकं संशोधनाय काचित् प्रणाली विकासनीया अस्ति। एतदर्थं, मान्यतायाः परं समयान्तराले, प्रकोष्ठोऽयं स्वसमग्रशैक्षणिकोत्कृष्टतायाः वर्धनाय संस्थायाः सर्वेषानां प्रयासानाम् उपायानां च मार्गनिर्माणं भविष्यति।

आंतरिक-गुणवत्ताश्वासनप्रकोष्ठस्य प्रकार्याणि :

  • • संस्थायाः विभिन्नाभ्यः शैक्षणिकाभ्यः एवं प्रशासनिकगतिविधिभ्यः गुणवत्तायाः मानदंडस्य मापदंडस्य वा विकासः एवम् अनुप्रयोगः।
  • • सहभागिशिक्षणम् एवं अभ्यासप्रक्रियायै आवश्यकज्ञानम् अपि च प्रौद्योगिकिस्वीकाराय गुणवत्तापूर्णशिक्षायाः संकायपरिपक्वतायाः अनुकूलम् अभ्यासस्य वातावरणनिर्माणस्य व्यवस्था।
  • • गुणवत्तासंबंद्धसंस्थागतप्रक्रियासु छात्राणाम्, अभिभावकानां अन्यहितधारकाणां च प्रतिक्रियाव्यवस्था ।
  • • उच्चतरशिक्षायाः विभिन्नगुणवत्तामानकानां सूचनाप्रसारः।
  • • अंतर-संस्थागतकार्यशालानाम् आयोजनम्, गुणवत्तासंबंद्ध विषयेषु संगोष्ठी एवं गुणवत्तापरिमंडलानां संवर्धनम्।
  • • गुणवत्ताविकासाय विभिन्नां कार्यक्रमाणां / गतिविधीनां प्रलेखीकरणम् ।
  • • सर्वोत्तमानां प्रथानां स्वीकारेण एवं प्रसारेण सहितं गुणवत्तासंबंद्ध गतिविधीनां समन्वयनाय संस्थायाः नोडल एजेंसीरूपेण कार्यकरणम् ।
  • • संस्थागतगुणवत्तां पालयन्/ तद्वर्धनोद्देश्येन एम.आई.एस इत्यनेन माध्यमेन संस्थागतं डेटाबेस इत्यस्य विकासः एवं संरक्षणम्।
  • • संस्थायां गुणवत्तासंस्कृतेः विकासः।
  • • एनएएसी इत्यस्य प्रस्तुतकर्तृणाम् एनएएसी इत्यस्य दिशानिर्देशानां मापदंडानां च अनुसारं वार्षिकगुणवत्ताआश्वासनप्रतिवेदनस्य (ए.क्यू.ए.आर.) निर्माणम्।

हितलाभः

  • • गुणवत्तायां वृद्धये संस्थागतकार्ये स्पष्टतास्तरस्य वर्धनं तथा च ध्यानाकेन्द्रस्य निश्चयीकरणम्।
  • • गुणवत्तासंस्कृतेः आंतरिकीकरणस्य निश्चयकरणम्।
  • • संस्थायाः विभिन्नगतिविधीनां मध्ये वृद्धिः एवं समन्वयस्य निश्चयकरणम् अपि च सर्वासां समीचीनानां प्रथानां संस्थागतीकरणम्।
  • • संस्थागतकार्याणां संवर्धनाय निर्णयनाय आधारप्रदानम् ।
  • • उच्चशिक्षासंस्थानेषु गुणवत्तापरिवर्तनाय एकेन गतिशीलप्रणालीरूपेण कार्यम्।
  • • प्रलेखनस्य एवम् आंतरिकसंचारस्य एकस्याः संगठितपद्धतेः निर्माणम्।

मुख्यम् लिंक इति