वेद-वेदाङ्गपीठम्

वेदविभागीयः परिचयः

भारतस्य राजधान्यां श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविश्विद्यालय: (मानितविश्वविश्वविद्यालयः) नवदेहली-१६ इत्यस्य स्थापना संस्कृतस्य संस्कृतेश्च प्रचार-प्रसाराय तत्संरक्षणाय च कृतासीत् | तस्यां दिशि विश्विद्यालयमिदं स्थापनादिवसादारभ्याद्यपर्यन्तं निरन्तरं कटिबद्धतया प्रगतिपथि समारूढमस्ति | अत्र वेदवेदाङ्गेन सहाष्टादशविषयेषु विद्यार्थिनः स्वाध्यायरताः सन्ति | वेदो विश्वसाहित्यस्य प्राचीनतमो ग्रन्थोऽस्ति | वेदानुमोदिता अस्मदीया संस्कृतिः भारतस्यात्मा वर्तते | अतो वेदानां रक्षादृष्ट्या विश्विद्यालय: वेदाध्ययनस्य विशिष्टा व्यवस्था विद्यते | समस्तमपि वैदिकं वाङ्मयं मुख्यरूपेण तिसृषु धारासु विभाजितमस्ति-

  1. अक्षरग्रहणम्
  2. अर्थानुशीलनम्
  3. प्रयोगश्च |

अक्षरग्रहणम्- इत्यनेन तात्पर्यमिदमस्ति यत् पारम्परिकरीत्या मन्त्राणां सस्वरमध्ययनम् |
अर्थानुशीलनम्- इत्यनेन तात्पर्यमिदमस्ति यन्निरुक्त-व्याकरण-ब्राह्मण-मीमांसादीनां ग्रन्थानाञ्च साहाय्येन वेदमन्त्रेषु निगूढानामर्थानां प्रतिपादनं तथा योगक्षेमार्थं समाजस्य मार्गदर्शनञ्च|
प्रयोगः- एष पक्षो बहुव्यापको गहनश्चास्ति | ऋषिभिः प्रकृतौ संजायमानानां गतिविधीनां सम्यगध्ययनं कृत्वा तदनुरूपाणां विविधानां यज्ञानुष्ठानानां प्रतिपादनं कृतम् | ते च यज्ञाः प्रकृतौ जायमानानां समस्तानामपि समस्यानामुपद्रवानाञ्चोपशमने पूर्णतः समर्थाः सन्ति | एतदर्थमृषिसम्मता उपायाः श्रौत-स्मार्त्तानुष्ठानानि सन्ति, येषां सूत्ररूपेण निरूपणं श्रौतसूत्रेषु गृह्यसूत्रेषु शुल्बसूत्रेषु च वर्तते | उपर्युक्तानामृषिसम्मतानां तिसृणां धाराणां संरक्षणे विश्विद्यालयस्यास्य वेदविभागः सततं प्रयत्नशीलो वर्तते | विभागे समये समये वेदसम्बद्धविविधविषयेषु व्याख्यानमाला, वैदिकसम्मेलनं, प्रयोगानुष्ठानञ्च क्रियते |

अस्मिन् विषये एष उल्लेखनीयो विषयोऽस्ति यत् षण्णवत्युत्तरैकोनविंशतितमाब्दे जनवरीमासस्य षष्ठे दिनाङ्के (06-01-1996) विश्विद्यालयस्य भव्यपरिसरे तत्कालीनानां कुलपतिमहोदयानां स्व० प्रो.वाचस्पति उपाध्यायमहोदयानां सान्निध्ये पौर्णमासेष्टेः सफलमनुष्ठानमभवत् | अनुष्ठानस्यास्य दर्शनार्थं भारतवर्षस्य विविधविश्वविद्यालयेभ्य आचार्या जिज्ञासवश्छात्राश्च समुपस्थिता आसन् |