ज्योतिषविभागः

ज्योतिषशास्त्रं ज्योतिर्विज्ञाननाम्ना प्रसिद्धमस्ति, अनेन न केवलमस्य वैज्ञानिकत्वं प्रकटितं भवत्यपितु ग्रहनक्षत्रणां गतेः स्थितेर्युत्यादिगणितीयपदार्थानां वेधद्वारा दृक्सिद्धेः कारणेन शास्त्रमिदं विज्ञानश्रेण्यां प्रत्यक्षत्वस्य सिद्धिं प्राप्नोति। शास्त्रमिदं मुख्यतया सिद्धान्त-होरा-संहितासु त्रिषु स्कन्धेषु समाहितमस्ति। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य (केन्द्रियविश्वविद्यालयस्य) स्थापनाकालादेव ज्योतिषविभागः शास्त्रीयज्ञानस्य वैज्ञानिकपरम्परागतलोकोपयोगिदुर्लभज्ञानस्य च सुरक्षाय संवर्धनाय च तथा जनसामान्याय सुलभतया उपलब्धो भवेदिति धिया कृतसंकल्पो वर्तते, अतः विश्वविद्यालयस्य ज्योतिषविभागः संस्कृतमाध्यमेन स्नातकस्य, स्नातकोत्तरस्य शोधस्तरस्य च पाठ्यक्रमाणां सञ्चालनं करोति। विश्वविद्यालयस्य वर्तमानकुलपतेः प्रो. रमेशकुमारपाण्डेयमहाभागा ये वर्तमाने विश्वविद्यालयस्य प्रथमकुलपतयस्सन्ति तेषामथकप्रयासैः पूर्वज्योतिषविभागाध्यक्षाणामेवं वेदवेदांगसंकायाध्यक्षाणां प्रो. शुकदेवचतुर्वेदिमहोदयानां चिन्तनमननेन परम्परागतस्य आधुनिकज्योतिषज्ञानस्य च जिज्ञासूनां पिपासाशान्तये अंशकालिनपाठ्यक्रमोऽपि प्रारब्धः। एतेषामंशकालिनपाठ्यक्रमाणां विश्वविश्रुतविकासोन्मुखिप्रवाहः निरन्तरं गतिमान् विद्यते ज्योतिषविभागेन सञ्चाल्यमानानां मुख्यपाठ्यक्रमाणां विवरणम्-
1. शास्त्री (बी.ए.) - एषः त्रिवर्षीय पाठ्यक्रमः सिद्धान्तज्योतिषे फलितज्योतिषे च प्रचलति। अस्मिन् पाठ्यक्रमे प्रवेशाय न्यूनतमाहर्ता वर्तते 10+2 तत्समकक्षकक्षा वा। अस्मिन् पाठ्यक्रमे प्रवेशः प्रवेशपरीक्षया जूनजुलाईमासयोः सम्पद्यते।
2. आचार्यः (एम-ए-) - एषः द्विवर्षीयः पाठ्यक्रमः सिद्धान्तज्योतिषे फलितज्योतिषे च प्रचलति। अस्मिन् पाठ्यक्रमे प्रवेशाय न्यूनतमाहर्ता वर्तते शास्त्री अथवा संस्कृतविषये बी.ए. कक्षा। अस्मिन् पाठ्यक्रमे प्रवेशः प्रवेशपरीक्षया जूनजुलाईमासयोः सम्पाद्यते
3. विशिष्टाचार्यः (एम.फिल.) - एषः एकवर्षीयः पाठ्यक्रमः सिद्धान्तज्योतिषे फलितज्योतिषे च प्रचलति। अस्मिन् पाठ्यक्रमे प्रवेशाय न्यूनतमाहर्ता वर्तते आचार्यः अथवा एम.ए. वैकल्पिकज्योतिषविषयेण साकं 55 प्रतिशतांकैः सहितान् उत्तीर्णछात्रन् प्रवेशपरीक्षया जूनजुलाईमासयोः प्रवेशः दीयते।
4. विद्यावारिधिः (पीएच्.डी.) - ज्योतिषशास्त्रस्य गम्भीरजटिलविषये लोकोपयोगिविषये च नवीनतथ्यानामन्वेषणाय एषः पाठ्यक्रमः सिद्धान्तज्योतिषे फलिज्योतिषे च प्रचलति। अस्मिन् अनुसन्धानपरके शोधपरके च पाठ्यक्रमे प्रवेशाय न्यूनतमार्हता भवति आचार्ये/एम.ए. कक्षायां 55 प्रतिशतांकैः सहितः ज्योतिषविषये उत्तीर्णता अनिवार्या। अस्मिन् पाठ्यक्रमे प्रवेशः वर्षे एकवारं प्रवेशपरीक्षया भवति। एषः न्यूनतमत्रिवर्षीयः एवम् अधिकतमषड्वर्षीयः अन्वेषणात्मकः अनुसन्धानात्मकश्च पाठ्यक्रमो वर्तते।
पूर्वोक्तपरम्परागतपाठ्यक्रमातिरिक्तं ज्योतिषविभागे शस्त्रीयलोकोपकारकं ज्ञानं जनसामान्याय सुलभो भवेदिति धिया हिन्दीभाषामाध्यमेन निम्नलिखिताः अंशकालीनपाठ्यक्रमाः अपि संचाल्यन्ते-
1. ज्योतिषप्रवेशिका - एषः षाण्मासिकः प्रमाणपत्रीयः पाठ्यक्रमोऽस्ति, अत्र प्रवेशाय न्यूनतमार्हता 10+2 समकक्षकक्षा वास्ति।
2. ज्योतिषप्राज्ञः- एषः एकवर्षीयः डिप्लोमापाठ्यक्रमोऽस्ति, अत्र प्रवेशाय न्यूनतमार्हता ज्योतिषविषयस्य सामान्यज्ञानेन साकं 10+2 तत्समकक्षकक्षा अथवा ज्योतिषप्रवेशिका समुत्तीर्णा अनिवार्या विद्यते।
3. ज्योतिषभूषणम् - एषः द्विवर्षीयः एड्वांसडिप्लोमा पाठ्यक्रमोऽस्ति, अत्र प्रवेशाय न्यूनतमार्हता 10+2 साकं ज्योतिषप्राज्ञः अथवा संस्कृतविषये स्नातककक्षोत्तीर्णा स्यात्।
4. भैषज्यज्योतिषम् (मेडिकल एस्ट्रोलॉजी)- एषः एकवर्षीयः पाठ्यक्रमोऽस्ति, अत्र प्रवेशाय न्यूनतमार्हता ज्योतिषविषयस्य सामान्यज्ञानेन साकं 10+2 समकक्षकक्षा वास्ति।
विश्वविद्यालयस्य ज्योतिषविभागः प्रतिवर्षं त्रिदिवसीय-राष्ट्रिय-कार्यशालायां धर्मशास्त्राधारे व्रतपर्वोत्सवानां निर्णयं कृत्वा प्रामाणिकमानकपञ्चागस्य निर्माणं प्रकाशनञ्च करोति। वर्तमानसमये ज्योतिषविभागः विश्वविद्यालयानुदानायोगस्य एकस्याः बृहत्परियोजनायाः (DRS-III) अन्तर्गतं विविधरोगेषु अनुसन्धसानकार्यं करोति।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 प्रेमकुमारशर्मा प्रो. प्रेमकुमारशर्मा ज्योतिषविभागः आचार्यः
2 बिहारीलालशर्मा प्रो. बिहारीलालशर्मा ज्योतिषविभागः आचार्यः
3 विनोदकुमारशर्मा प्रो. विनोदकुमारशर्मा ज्योतिषविभागः आचार्यः
4 नीलम ठागेला प्रो. नीलम ठागेला ज्योतिषविभागः आचार्यः
5 दिवाकरदत्तशर्मा प्रो. दिवाकरदत्तशर्मा ज्योतिषविभागः आचार्यः
6 परमानन्दभारद्वाजः प्रो. परमानन्दभारद्वाजः ज्योतिषविभागः आचार्यः
7 सुशीलकुमारः डॉ सुशीलकुमारः ज्योतिषविभागः आचार्यः
8 फणीन्द्रकुमारचौधरी डॉ फणीन्द्रकुमारचौधरी ज्योतिषविभागः आचार्यः
9 रश्मि चतुर्वेदी डॉ रश्मि चतुर्वेदी ज्योतिषविभागः आचार्यः
10 रतन लाल डॉ रतन लाल ज्योतिषविभागः सहाचार्यः