वेदविभागः


Devendra Prasad Mishra
प्रो. देवेन्द्र प्रसाद मिश्र
विभागाध्यक्ष
प्रोफेसर, वेद विभाग
14.09.2023 to 13.09.2026

वेदविभागीयः परिचयः

भारतस्य राजधान्यां श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम् (मानितविश्वविश्वविद्यालयः) नवदेहली-१६, यदिदमधुना श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः (केन्द्रियविश्वविद्यालयः) इति नाम्ना प्रसिद्धमस्ति | अस्य स्थापना संस्कृतस्य संस्कृतेश्च प्रचार-प्रसाराय तत्संरक्षणाय च कृतासीत् | तस्यां दिशि विद्यापीठमिदं (१९७१ ई.) स्थापनादिवसादारभ्याद्यपर्यन्तं निरन्तरं कटिबद्धतया प्रगतिपथि समारूढमस्ति | अत्र वेदवेदाङ्गेन सह विंशतिविषयेषु विद्यार्थिनः स्वाध्यायरताः सन्ति | वेदो विश्वसाहित्यस्य प्राचीनतमो ग्रन्थोऽस्ति | वेदानुमोदिता अस्मदीया संस्कृतिः भारतस्यात्मा वर्तते | अतो वेदानां रक्षादृष्ट्या विश्वविद्यालयेऽस्मिन् वेदाध्ययनस्य विशिष्टा व्यवस्था विद्यते | समस्तमपि वैदिकं वाङ्मयं मुख्यरूपेण तिसृषु धारासु विभाजितमस्ति-

  1. अक्षरग्रहणम्
  2. अर्थानुशीलनम्
  3. प्रयोगश्च |
  • अक्षरग्रहणम्- इत्यनेन तात्पर्यमिदमस्ति यत् पारम्परिकरीत्या मन्त्राणां सस्वरमध्ययनम् |
  • अर्थानुशीलनम्- इत्यनेन तात्पर्यमिदमस्ति यन्निरुक्त-व्याकरण-ब्राह्मण-मीमांसादीनां ग्रन्थानाञ्च साहाय्येन वेदमन्त्रेषु निगूढानामर्थानां प्रतिपादनं तथा योगक्षेमार्थं समाजस्य मार्गदर्शनञ्च|
  • प्रयोगः- एष पक्षो बहुव्यापको गहनश्चास्ति | ऋषिभिः प्रकृतौ संजायमानानां गतिविधीनां सम्यगध्ययनं कृत्वा तदनुरूपाणां विविधानां यज्ञानुष्ठानानां प्रतिपादनं कृतम् | ते च यज्ञाः प्रकृतौ जायमानानां समस्तानामपि समस्यानामुपद्रवानाञ्चोपशमने पूर्णतः समर्थाः सन्ति | एतदर्थमृषिसम्मता उपायाः श्रौत-स्मार्त्तानुष्ठानानि सन्ति, येषां सूत्ररूपेण निरूपणं श्रौतसूत्रेषु गृह्यसूत्रेषु शुल्बसूत्रेषु च वर्तते | उपर्युक्तानामृषिसम्मतानां तिसृणां धाराणां संरक्षणे विश्विद्यालयस्यास्य वेदविभागः सततं प्रयत्नशीलो वर्तते | विभागे समये समये वेदसम्बद्धविविधविषयेषु व्याख्यानमाला, वैदिकसम्मेलनं, प्रयोगानुष्ठानञ्च क्रियते |

अस्मिन् विषये एष उल्लेखनीयो विषयोऽस्ति यत् षण्णवत्युत्तरैकोनविंशतितमाब्दे जनवरीमासस्य षष्ठे दिनाङ्के (06-01-1996) विद्यापीठस्य (विश्वविद्यालयस्य) भव्यपरिसरे तत्कालीनानां कुलपतिमहोदयानां स्व० प्रो.वाचस्पति उपाध्यायमहोदयानां सान्निध्ये पौर्णमासेष्टेः सफलमनुष्ठानमभवत्| अनुष्ठानस्यास्य दर्शनार्थं भारतवर्षस्य विविधविश्वविद्यालयेभ्य आचार्या जिज्ञासवश्छात्राश्च समुपस्थिता आसन् | विभागीयच्छात्राणां ज्ञानवर्द्धनाय प्रतिमासं धीवर्द्धिनी सभाया आयोजनं क्रियते | विभागीया अध्यापकाः छात्रेभ्यः निरन्तरमुपयुक्तं मार्गदर्शनं कुर्वन्ति |

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 गोपालप्रसादशर्मा प्रो. गोपालप्रसादशर्मा वेदविभागः आचार्यः
2 रामानुज उपाध्यायः प्रो. रामानुज उपाध्यायः वेदविभागः आचार्यः
3 देवेन्द्रप्रसादमिश्र डॉ देवेन्द्रप्रसादमिश्र वेदविभागः आचार्यः
4 सुन्दरनारायणझाः डॉ सुन्दरनारायणझाः वेदविभागः आचार्यः
5 हनुमानमिश्र डॉ हनुमानमिश्र वेदविभागः आचार्यः
6 ओंकार यशवन्त सेलुकर डॉ ओंकार यशवन्त सेलुकर वेदविभागः सहायकाचार्यः