वास्तुशास्त्रविभागः

स्थापत्यरूपेण वास्तुशास्त्रस्य वर्णनं वैदिककालात् एव हि सर्वत्र दृश्यते। दिशः तथा च कालानुरूपं कस्मिंचित् देशे अथवा स्थाने स्थापत्यस्य विचारः अभीष्टव्यक्तेः अनुरूपं करणं वास्तुशास्त्रस्य मुख्यम् उद्देश्यम्। स्थापत्यस्य शुभाशुभत्वविचारकारणात् ज्यौतिष्यशास्त्रस्य संहिताभागे वास्तुविद्यायाः समावेशः जातः।

वास्तुपुरुषमण्डलस्य वर्णनेन इदं द्योत्यते यत् यथा अस्माकं सम्पूर्णं शरीरम् एकं सजीवभागः, परन्तु तत् निर्मातुं सूक्ष्मकोशाः स्वस्मिन्नेव चैतन्यभागाः सन्ति। तेषां प्रतिक्रियाभिः सर्वशरीरेप्रतिक्रियाः भवन्ति तथैव एकात्मताभावः अपि वास्तुशास्त्रे प्राधान्यं भजते। ग्रहं, नक्षत्रं, सूर्यः, चन्द्रः, इत्यदिसर्वेषाम् उर्जाताः वास्तुरचना अनुकूला प्रतिकूला च भवति। वास्तुशास्त्रस्य उद्देश्यं तु सर्वेषां सुखं सुरक्षितं जीवनम्। यत्र च भूत्वा व्यक्तिः स्वकीय-उद्देश्यं पूरयितुं शक्नोति।

वास्तुशास्त्रम् एका विस्तृतशास्त्रीयपरम्परा एवं वर्तमानकाले एतस्य स्वरूपं प्रति एतत् शास्त्रं प्रति जनानां रुचिं वीक्ष्य विद्यापीठेन अन्यविभागवत् वास्तुशास्त्रविभागम् उद्घाटितम्। तत्र शास्त्री, आचार्य, विशिष्टाचार्य, एवं विद्यावारिधिकक्षासु प्रवेशः २०१३ तमे वर्षे आरब्धः। अत्र च जनानां रुचिं वीक्ष्य विश्वविद्यलय-अनुदान-आयोगस्य दिशानुसारं वास्तुशास्त्रे द्विवर्षीय पी जी डिप्लोमा इत्ययं पाठ्यक्रमः अपि चालितः। एतस्य पाठ्यक्रमस्य मुख्योद्देश्यं तु वास्तुशास्त्रस्य दुर्लभज्ञानस्य समान्यजनेषु परिचयकारणम्। शनिवासरे रविवासरे च अंशकालीनपाठ्यक्रमे प्रमाणपत्रीयपाठ्यक्रमः तथा च एडवांस डिप्लोमा इत्यपि पाठ्यक्रमः चाल्यमानः अस्ति।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 देवीप्रसादत्रिपाठी प्रो. देवीप्रसादत्रिपाठी वास्तुशास्त्रविभागः आचार्यः
2 अशोकथपलियालः डॉ अशोकथपलियालः वास्तुशास्त्रविभागः आचार्यः
3 प्रवेशव्यासः डॉ प्रवेशव्यासः वास्तुशास्त्रविभागः सहायकाचार्यः
4 देशबन्धुः डॉ देशबन्धुः वास्तुशास्त्रविभागः सहायकाचार्यः
5 योगेन्द्र कुमार शर्मा डॉ योगेन्द्र कुमार शर्मा वास्तुशास्त्रविभागः सहायकाचार्यः
6 दीपक वशिष्ठ डॉ दीपक वशिष्ठ वास्तुशास्त्रविभागः सहायकाचार्यः
7 नवीन पांडे डॉ नवीन पांडे वास्तुशास्त्रविभागः सहायकाचार्यः