वेधशाला

भारतीयज्यौतिष्यशास्त्रस्य विषेशता नाम इदं प्रत्यक्षं शास्रम्। अस्मिन् शास्रे प्रत्यक्षतायाः अर्थः इत्युक्ते- गणितद्वारा आनीतस्पष्टग्रहाणां वेधस्य यथावत् भानम्। अत एव सिद्धान्तग्रन्थेषु प्रतिपादितानां ग्रहाणां गतिः, स्थितिः, उदयः, अस्तं, मार्गत्वं, वक्रत्वं, ग्रहणम् एवं श्रृङ्गोन्नत्यादिगणतीयसिद्धान्तं प्रत्यक्षरूपेण अस्माकं मनीषिभिः आचार्यैः सुदूरतनप्राचीनकालात् वेधप्रक्रियायाः आश्रयः स्वीकृतः।

वराहमिहिरस्य पूर्ववर्तिपञ्चसिद्धान्तेषु तथा च परवर्तिलल्लश्रीपतिभास्कराचार्यकमलाकरभाट्टसदृशैः सर्वैः विद्वद्भिः सिद्धान्तग्रन्थेषु त्रिप्रश्नाधिकारकः अध्यायः नियमतः स्थापितः वर्तते। यत्र च शुङ्कु-आदियत्राणां साहाय्येन दिशः, देशस्य, कालस्य च ज्ञानं कर्तुं शक्यते।
सिद्धान्तग्रन्थे येषां यन्त्राणां विधानं कृतं, तैः यन्त्रैः ग्रहदर्शनप्रक्रिया एव वेध इति पदेन कथ्यते। यत्र च एतादृशयन्त्राणां विधानं कृत्वा ग्रहाणां स्थितिः गतिः वा सततं परीक्ष्यते तत् वेधशाला कथ्यते। भारतवर्षे सर्वप्रथमं महाराजमिर्जासवाईजयसिंहेन जयपुरे, देहल्यां मथुरायां, उज्जैन्यां, काश्यां, वेधशाला निर्मिता। देहल्यां प्रसिद्धं जन्तरमन्तर तस्य वेधशालासु प्रमुखा अस्ति। एतासु वेधशालासु ज्यौतिष्यस्य विद्वांसः स्वशिष्यैः सह वेधप्रक्रियाद्वारा गणितसिद्धान्तेषु शोधं कुर्वन्ति स्म। एताः सर्वाः वेधशालाः पाषाणखण्डैः निर्मिताः। कालक्रमेण अत्र च किञ्चित् स्थूलता आगता।

वेधशालानां यन्त्राणां स्थौल्यम् अपाकर्तुं वेधप्रक्रियाम् अस्मिन् युगे प्रचारयितुं ज्यौतिष्यशास्त्रस्य प्रत्यक्षतां सामान्यजनानां समक्षे आनेतुं श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विद्यापीठेन वेधशालायाः निर्माणम् आरब्धम्। अत्र च विद्यापीठस्य सौभाग्यं यत् एतत् कार्यस्य साहाय्यं कर्तुं विद्वान् पं. श्री कल्याणदत्त शर्मा समागतः। तैः च अहर्निशम् एकीकृत्य ननोयोगद्वारा विद्यापीठस्य वेधशालायाः यन्त्राणां निर्माणं, संशोधनं, परीक्षणं कृतम्। अस्मिन् कार्ये विद्यापीठस्य ज्यौतिषविभागाध्यक्षः डा. शुकदेवचतुर्वेदी एवं ज्यौतिषविभागस्य रीडर डा. ओंकारनाथचतुर्वेदी पं. श्री शारदानिवासशास्त्री, वरिष्ठव्याख्याता पं. श्री रामदेव झा, डा. प्रेमकुमारशर्मा इत्यादयः जनाः यथासमयं कार्यतत्पराः भूत्वा सहयोगम् अकुर्वन्। अस्यां वेधशालायां निम्नलिखितानां यन्त्राणां निर्माणं जातम्-

  1. नाडीवलययन्त्रम्
  2. याम्योत्तरीयतुरीययन्त्रम्
  3. सम्राटपलभायन्त्रम्
  4. शङ्कुयन्त्रम्
  5. भारतीयतारामण्डलम्
  6. चक्रयन्त्रम्
  7. याम्योत्तरधरातलीयतुरीययन्त्रम्
  8. क्रान्तिवृत्तयन्त्रम्तु
  9. लाकर्कमकरराशिवलययन्त्रम्
  10. षष्ठ्यांशयन्त्रम्