संगणककेन्द्रम्

भारतीयसर्वकारस्य विद्युद्विभागेन १९८९ तमे वर्षे जवाहरलालनेहरुविश्वविद्यालयः, नवदेहली इत्यनया संस्थया सह अस्मै विश्वविद्यालयाय “CASTALLE” (Computer Assisted Sanskrit Teaching/Learning Environment) इति विषयकः कश्चन सयुंक्तप्रकल्पः दत्तः। तदनन्तरं १९९३ तमे वर्षे विश्वविद्यालयोऽयं विद्युद्विभागात् एव “CALT” (Computer Assisted Language Teaching) नामकं प्रकल्पान्तरं प्राप्नोत्। प्रकल्पाभ्याम् आभ्यां विश्वविद्यालयः १९८९ तमे वर्षे एकां लघ्वीं संगणकप्रयोगशालां समस्थापयत्, अपि च शिक्षाशास्त्रीपाठ्यक्रमे वैकल्पिकविषयत्वेन सङ्गणकपाठयक्रमस्य आरम्भम् अकरोत्। तदारभ्य विश्वविद्यालयेन संगणकप्रौद्योगिकक्षेत्रे विकासाय महत् योगदानं दत्तम्। २००५ तमवर्षस्य दिसम्बरमासे विश्वविद्यालयानुदानायोगः (UGC) विश्वविद्यालयायास्मै सङ्गणककेन्द्रम् आरब्धुं मान्यताम् अददात्। अथ च, २००६ तमवर्षस्य जूनमासे विश्वविद्यालयः सुसज्जितमेकं सङ्गणककेन्द्रम् अस्थापयत्। तच्च केन्द्रं २००७ तमवर्षस्य जनवरीमासादारभ्य कार्यरतं जातम्।
संगणककेन्द्रमिदं विश्वविद्यालयसमुदायाय अध्येतुम्, अध्यापयितुं, प्रशिक्षयितुम्, अनुसन्धातुम्, ई-मेलिंग कर्तुं, वेबसाइट होस्टिंग कर्तुम्, एवं विकासप्रबन्धनादिविषयेषु च सङ्गणकसुविधां सम्यक् रूपेण प्रददाति। इयं च सूचनातन्त्रज्ञानव्यवस्था (core IT system), उपकरणानि, सेवाः च न केवलं शोधकर्तृभ्यः अतिमहत्वपूर्णसामग्रीविश्लेषणाय साहाय्यं कुर्वती विश्वविद्यालयस्य दैनन्दिनव्यवस्थां चारुरूपेण चालयति अपि तु, विश्वविद्यालयस्य अन्तर्जालसुविधां विस्तारयन्ती ‘वर्ल्ड वाईड वेब’ इत्यस्मिन् प्रवेशं सक्षमीकरोति अपि च विविधपाठ्यक्रमे विद्यमानेभ्यः छात्रेभ्यः प्रायोगिकसुविधां प्रपूरयति। केन्द्रमिदं विश्वविद्यालयीयानां छात्राणां, शिक्षकानां, कर्मचारिणां च सङ्गणकीयसुविधान्तर्गताः सर्वविधाः आवश्यकताः अपेक्षाः च पूरयति।

    सङ्गणककेन्द्रस्य कार्याणि:-

  1. विश्वविद्यालयस्य सर्वेभ्यः छात्रेभ्यः कर्मचारिभ्यः नेटवर्क सर्वर इत्यनेन सह केन्द्रीयसङ्गणकसुविधायाः प्रदानम्।
  2. शोधकर्तृभ्यः अनुसन्धानस्य सञ्चालनार्थं तेषां डेटा इत्यस्य विश्लेषणं कर्तुम् अपि च प्रत्येकमपिक्षेत्रे साहायता प्रादानम्।
  3. विश्वविद्यालयस्य सर्वेभ्यः छात्रेभ्यः कर्मचारिभ्यः च अल्पकालिकपाठ्यक्रमाणां सञ्चालनम्।
  4. विश्वविद्यालयस्य विभिन्नविभागानां गतिविधीनां सङ्गणकीकरणे साहाय्यम्।
  5. परिसरानुसारेण नेटवर्क तथा इन्टरनेटसम्बन्धीसेवादिकार्याणां स्थापनं, तस्य समन्वयः, रक्षणम्, प्रबन्धनं च।
  6. अन्यविश्वविद्यालयानां सङ्गणककेन्द्रैः सह नेटवर्किंगक्षेत्रे स्वस्वज्ञानस्य आदानप्रदानार्थं समन्वयकेन्द्ररूपेण कार्यकरणम्।
  7. सङ्गणककेन्द्राणां सुरक्षा / उन्नयनार्थं केन्द्राणां सौलभ्यम् अपि च साफ्टवेयरविकासेन सम्बद्धः परामर्शः/ संविदात्मककार्याणि, विश्वविद्यालयस्य नियमाः / विधयः / अध्यादेशानुसारेण राजस्वम् उत्पादयितुं कर्तुं शक्नुयात्। एतादृशं कार्यं स्वतन्त्ररूपेण अथवा सार्वजनिकरूपेण अथवा स्वक्षेत्रे अन्यौद्यमिभिः सह संयुक्तोद्यमरूपेण कर्तुं शक्यते।
  8. कम्प्यूटर हार्डवेयर/ साफ्टवेयर/ इंटरनेटप्रौद्यौगिकक्षेत्रे नवीनतमविकासेषु ध्यानस्थापनम्, कर्मचारिभ्यः एवं छात्रेभ्यः सूचना/ डेटासंकलं तथा च तत् विश्वविद्यालयाय कर्मचारिभ्यः तस्य दानहेत्वर्थम्।
  9. सूचना एवं संचारप्रद्यौगिकक्षेत्रे मानवसंसाधनस्य विकासः।
  10. विश्वविद्यालयीयविविधविभागेषु कक्षाशिक्षणं सञ्चालयितुं समन्वयकरणं सहयोगप्रदानं च।

    केन्द्रद्वाराअन्यसुविधाः –

  1. दूरभाषीयसहयोगसेवा
  2. सुव्यवस्थितसङ्गणकशालायाम् अध्ययनमध्यापनम्
  3. पाठ्यक्रमानुसारं दृश्यश्राव्यमाध्यमेन पाठान् आरचयितुं ‘वर्चुअल ई-क्लास रूम’ / स्टूडियो इत्येतस्य व्यवस्थापनम्।
  4. शोधछात्रेभ्यः अपि च सहकर्मिभ्यः सङ्गणकशिक्षणम्
  5. रिसर्च स्कॉलर्स एंड स्टाफ को कंप्यूटर प्रशिक्षण
  6. सीसीटीवी द्वारा परिसरस्य उन्नतसुरक्षा
  7. सर्वेभ्यः छात्रेभ्यः, कर्मचारिभ्यः अतिथिगृहेभ्यः, छात्रावासेभ्यः, आवासीयक्षेत्रेभ्यः च परिसरीय-वाई-फाई-व्यवस्था
  8. विश्वविद्यालयस्य प्रवेशे तथा प्रशासने सहयोगः
  9. कम्प्यूटरसर्टिइकेशन कोर्स
  10. आईटी सेवा तथा परामर्शः