क्रीडा प्रतियोगिता एवं स्पर्धा
छात्राणां स्वास्थ्यशारीरिमानसिकविकासाय विभिन्नक्रीडानाम् एवं प्रतिस्पर्धानां विशेषमहत्त्वं विद्यते। एतदवधाय विद्यापीठछात्रेभ्यः एकः स्वतंत्रक्रीडानुभागोऽस्ति, येन विभिन्नक्रीडासुविधाः उपलभ्याः सन्ति। मुख्यतः धावनपन्थाः, क्रिकेट, योगासनम्, मल्लयुद्धम्, कबड्डी, बैडमिंटन, वॉलीबॉल,इत्यादिक्रीडाः आयोजिताः येन सप्तशताधिकाः छात्राः भागं गृहीतवन्तः येषु सार्धैकशताधिकाः छात्राः पुरस्कृताः अभूवन्।
क्रीडाविभागेन जिम्नेजियम (वयामशाला)इत्यस्य पृथग्व्यवस्था कृता अस्ति । तेन सार्धमेव विद्यापीठे कार्यरतमहिलाकर्मचारिणीभ्यः एवं अध्यापकेभ्यः (Basic facility for Women) Women Recreation Centre इत्यस्य स्थापना कृता। एषां समेषां व्यवस्था एवं संचालनार्थाय क्रीडाप्रभारी, श्रीमनोजसिंहमीना वर्याय प्रभारः दत्तः।