Yajnashala

यज्ञशाला:

यज्ञशाला:

यज्ञस्य तात्पर्यमस्ति यत् त्याग:, बलिदानं, शुभकर्म च। स्व-प्रियखाद्यपदार्थै: वा मूल्यवान्-सुगंधितपौष्टिकद्रव्यै: अग्नेः एवं वायो: माध्यमेन समग्रस्य जगतः मङ्गलाय यज्ञद्वारा विस्तारः क्रियते। यस्मिन् स्थले यज्ञसंपादनं क्रियते तत् स्थलं यज्ञशाला उच्यते। विश्वविद्यालयेऽपि यज्ञशाला निर्मिता विद्यते। यज्ञशालायां वैदिकानुष्ठानानाम् एवञ्च यज्ञानां सम्पादनाय विविधप्रकारकानि मण्डलानि निर्मितानि। यथा- सर्वतोभद्रमण्डलम्, चतुर्लिंगतोभद्रमण्डलम्, वास्तुमण्डलम्, एकाशीतिपदवास्तुमण्डलम्, नवग्रहमण्डलम्, षोडशमातृकामण्डलम् , सप्तघृतमातृकामण्डलम्, क्षेत्रपालमण्डलम्, योगिनीमण्डलं सहितं विविधप्रकारकमण्डलानां सचित्रं निर्माण कृतं वर्तते। एतानि मण्डलानि अवलोक्य अनुष्ठानेषु मण्डलानां स्वरूपस्य ज्ञानं सरलतया कर्तुं शक्यते । इदमपि ज्ञातुं शक्यते यत् कस्मिन् मण्डले कस्या: देवताया: स्थानं कुत्रास्ति? तस्या: मुखं कस्यां दिक्षु अस्ति, अपि च केन प्रकारेण वैदिकमन्त्राणाम् उच्चारणेन षोडशोपचारै: विधिवत् पूजनं कर्तुं शक्यते।

अस्यां यज्ञशालायां काष्ठस्यैका यज्ञशाला प्रदर्शनाय (डेमो) निर्मिता वर्तते। येन स्पष्टं भवति यत् केन प्रकारेण स्मार्त्त-यज्ञशाला निर्मीयते, अपि च केन प्रकारेण यज्ञाः संपाद्यन्ते। यथा- शतचंडीयज्ञ:, सहस्त्रचंडीयज्ञ:, लक्षचंडीयज्ञ:, विष्णुयज्ञ:, रूद्रयज्ञ:, लघुरूद्रयज्ञ:, महारूद्रयज्ञ:, अतिरूद्रयज्ञ:, हनुमतयज्ञ:, लक्ष्मीयज्ञ:, नवग्रहयज्ञ:, हरिहरात्मकयज्ञ:, वरुणयज्ञ: इत्येषां विविधयज्ञानां प्रयोगविधानञ्च सरलतया अध्येतृणां कृते अवबोधयितुं शक्यते। एतदतिरिच्य यज्ञविज्ञानं ज्ञातुं यज्ञमंडपस्य प्रत्येकस्मिन् स्तम्भे, वेद्यां, कुंडे देवतानां नामानि विलिख्य प्रदर्शितानि सन्ति। येन अवगम्यते यत् जगतः कल्याणाय कथम् अपि केन प्रकारेण ऋषयः यज्ञसम्पादनमकुर्वन्।

यज्ञशालायां गुरुशिष्यपरम्परया अध्ययनमध्यापनञ्च क्रियते, एतस्य कृते विधिवत् कटे उपविश्य गुरुशिष्याः तदनुरूपं वस्त्राणि, (धौतवस्त्रं, करांशुकम्, उत्तरीयम् इत्यादि) धृत्वा उभयतः साम्मुख्यम् उपविश्य काष्ठपीठिकाया: उपरि आसनस्थग्रन्थं संस्थाप्य स्वाध्यायं कुर्वन्ति। यज्ञशालायां प्रायोगिकानां क्रियाणां सम्पादनं प्रत्यक्षरूपेण कारयते। यत्र विविधदेवतानां चित्राणि स्थापितानि वर्तन्ते । तासां देवतानां चित्राणि समक्षं संस्थाप्य विधिवत् पूजनं छात्रै: क्रियते। अस्मिन् अवसरे छात्राणां सर्वविध-जिज्ञासानां समाधानं गुरुणा क्रियते। परम्परायां केन प्रकारेण एतस्य सर्वस्य संपादनं भवति इदमपि सप्रमाणं बोधयते। येन समाजे व्याप्तकुरीतयः भ्रान्तयश्च दूरीकर्तुं सहाय्यं प्राप्यते। यथा- गणेशपूजनम्, कलशपूजनम् इत्यादीनां विधिवत् षोडशोपचारपूजाप्रयोग: कुंडे च अग्ने: सम्पादनस्य प्रयोग: बोधयते। अस्यां यज्ञशालायां पौरोहित्यविभागस्य कानिचन पुस्तकानि सङ्ग्रहितानि विद्यन्ते तत् स्थानं विभागीय-पुस्तकालय: कथितुं शक्यते। विभागीयछात्रा: यथावसर एतानि पुस्तकानि अधीत्य स्वज्ञानं वर्धयन्ति। सामान्य-यज्ञीयपात्राणां संग्रह: यज्ञशालायामस्ति येषां प्रयोगः स्मार्त्तयज्ञेषु दरीदृश्यते।