
प्रो. सुमन कुमार झा
विभागाध्यक्ष
प्रोफेसर, साहित्य विभाग
09.09.2020 to 08.09.2023
“पञ्चमीसाहित्यविद्या” आचार्यराजशेखरस्य उक्त्यनुसारेण वेदादिचतसृभ्यः विद्याभ्यः व्यतिरिक्ता पञ्चमी विद्या साहित्यविद्या परिगण्यते अतः एतस्याः स्थानं अनिवार्यं भवति। वर्तमानयुगे तु एषा उक्तिः चरितार्थम् आप्नोति। यतः समग्रं विश्वसाहित्यं, सौन्दर्यशास्त्रं, कला तथा कलाशास्त्रं, संगीतं तथा संगीतशास्त्रं, नाट्यं तथा च नाट्यशास्त्रम् एतस्य अन्तर्गतत्या आगच्छति अतः लोकजीवने प्रतिपदं अनुभूयते। विश्ववाङ्मये संस्कृतशब्दानुच्चारणेनैव संस्कृतकवीनां व्यास, वाल्मीकि, कालिदासादीनां – रामायणमहाभारत-अभिज्ञानशाकुन्तलमेघदूतादिनां स्मरणम् आगच्छति। अनेन च संस्कृतसाहित्यस्य महिमा तथा च लोकप्रियता स्पष्टीभवति। संस्कृतसाहित्यस्य अगणितासु विद्यासु वर्गीकृतरूपेण काव्यशास्त्रं, अलंकारशास्त्रं, नाट्यशास्त्रं , पाश्चात्यकाव्यशास्त्रं च विशेषेण साहित्यविभागस्य पाठ्यसामग्र्यां स्थापितम् अस्ति। यथा काव्यभागे कालिदासभवभूतिभारविमाघश्रीहर्षबाणादीनां क्रमशः मेघदूतकुमारसम्भवादि, उत्तररामचरित, किरातार्जुनीयं, शिशुपालवधं, नैषधीयचरितं , कादम्बरी, इत्यादिकं तद्वत् काव्यशास्त्रे षट्प्रस्थानान्तर्गततया प्रमुखरूपेण भरतमुनिः, अभिनवगुप्तः, वामनः, कुन्तकः, आनन्दवर्धनः, क्षेमेन्द्रः, तत्पक्षसमर्थकः मम्मटः, भामहः, विश्वनाथः, एते समायान्ति। पारम्परिककाव्यशास्त्राणाम् अध्ययनान्तर्गततया काव्यालङ्कारः, चित्रमीमांसा, अलंकारसर्वस्वं, नाट्यशास्त्रान्तर्गततया भरतनाट्यशास्त्रं, नाट्यदर्पणम्, अभिनवभारती, स्वप्नवासोदत्तं, चारुदत्तं, वेणीसंहारः, अभिज्ञानशाकुन्तलादिग्रन्थाः पाठ्यक्रमे निर्धारिताः। आधुनिकसंस्कृतसाहित्यं तथा च साहित्यशास्त्रं छात्रेभ्यः परिचेतुं शास्त्री एवम् आचार्यपाठ्यक्रमे प्रसिद्धकृतीनां चिताः अंशाः निर्धारिताः। विकल्पाधारितपाठ्यक्र्मव्यवस्थान्तर्गततया आचार्यस्तरे भाषाविज्ञानं पाश्चात्यकाव्यशास्त्राध्ययनमपि आरब्धम् अस्ति। तथा च अनेन सह अर्वाचीनसंस्कृतसाहित्यसंबद्धानि पत्राण्यपि आरब्धानि। साहित्यविभागस्य अयं प्रयासः यत् शास्त्रीतः आरभ्य आचार्यपर्यन्ताध्यनानन्तरं छात्रः पूर्णरूपेण विकसितां साहित्यपरम्परां जानीयात्। स्नातकोत्तरस्तरे काव्यशास्त्रस्य नाट्यशास्त्रस्य, आलंकारशास्त्रस्य, साहित्यशास्त्रस्य विशदध्यनेन अध्यापनेन च एतस्य विभागस्य गौरवम् अधिकरूपेण वर्धितं स्यात्। आगामिसत्रतः साहित्यविभागान्तर्गततया आचार्यस्तरे नाट्यसाहित्यं तथा च नाट्यशास्त्रम् इति अन्तश् शात्रीयविभागः स्थापितः।
वर्तमानयुगे शोधदृष्ट्या जनसामान्यलाभाय महाकाव्यानां प्रासंगिकतायाः प्रचारप्रसाराय विशदध्ययनदृष्ट्या च विभागे विश्वविद्यालयानुदानायोगस्य विशेषार्थिकानुदानेन “बृहत्रयी बृहत्कोशयोजना” इत्याख्या शोधयोजना शीघ्रमेव सामाप्तिम् एष्यति।