प्राकृतविभागः

‘‘वाचःप्राकृत-संस्कृतौ श्रुतिगिरो’’इति आद्यशंकराचार्यस्य सूक्तेः अनुसारं प्राकृतसंस्कृतभाषे भारतीयविद्यायाः संवाहिके स्तः।
सर्वैः भाषाशास्त्रज्ञैः भारतस्य प्राचीनतम-लोकभाषारूपेण प्राकृतभाषायाः अस्तित्त्वं महत्त्वं च स्वीकृतम् । आचार्यः पाणिनिः, चण्डः, वररूचिः, समन्तभद्रप्रभृतयो नैकाः भाषाविद्वांसः प्राकृतभाषायाः व्याकरणग्रन्थान् अलिखन्। भगवान्महावीरमहात्माबुद्धसदृशाः सुविख्याताः ऐतिहासिकमहापुरुषाः स्वोपदेशं अस्यां भाषायां प्रदत्तवन्तः। सम्पूर्णागमसाहित्यं अस्यां भाषायामेव निबद्धं वर्तते। लोकसाहित्यस्य प्रायशः सर्वासु विधासु प्राकृतभाषानिबद्धसाहित्यं प्राप्यते यथा रूपकसाहित्यं काव्यसाहित्यं कथासाहित्यं चरितसाहित्यं दार्शनिकसाहित्यं, मुक्तकसाहित्यं, रसायनशास्त्रं, धातुवादं, वनस्पतिशास्त्रं, भूविज्ञानं छंदश्शास्त्रीयग्रन्थाः कोशग्रन्थाः वास्तुशास्त्रीयग्रन्थाः, ज्योतिषशास्त्रीयग्रन्थाः, गणितशास्त्रीयग्रन्थाः भूगोलविद्या, खगोलविद्या, रत्नविद्या चेति नाना ज्ञानविज्ञानानि अस्यां भाषायां अतिप्राचीनकालादेव प्राप्यन्ते । समस्तसंसारस्य विद्वांसः अस्याः अप्रतिमं महत्त्वं मन्यत।

विविधभारतीयभाषाभिः प्रान्तीय-भाषाभिश्च सह राष्ट्रभाषा हिन्दी अपि प्राकृतापभ्रंशपरम्परायां पल्लविता अभवत्। संस्कृतभाषायाः मूलोत्सछान्दस्भाषायामपि (वेदानां भाषा) प्राकृतभाषातत्त्वानां प्रचुरता अस्ति।
अतः भारतीयभाषाशास्त्रस्य क्र्रमिकविकासं अवगन्तुं प्राकृतभाषायाः प्राकृतभाषासाहित्यस्य च ज्ञानमत्यन्तमावश्यकम् । प्राचीनभारतस्य सर्वे शिलालेखाः अभिलेखीयसाहित्यं प्राकृतभाषायामेव निबद्धम् अस्ति। प्राघ्मौर्ययुगीनाभिलेखं मुद्राः, सम्राटअशोकस्य अभिलेखः, सम्राटखारवेलस्य अभिलेखः वडलीयस्य अभिलेखः एतेषां सर्वेषां भाषा प्राकृतमेव वर्तते। प्राकृतभाषायाः बहु{{यामीसाहित्यं भारतीयैतिहासस्य संस्कृतेः, कलानां, दर्शनानां, ज्ञानविज्ञानस्य च महत्त्वपूर्णमाश्रयं वर्तते। शास्त्रिप्रथमवर्षात् विशिष्टाचार्यं यावत् प्रायशः सर्वविध-प्राकृतभाषायाः वाघ्मयं विशेषज्ञसमित्या पाठयक्रमे निर्धारितम् । अस्मिन् सम्राटअशोकस्य, खारवेलस्य अभिलेखं, आचारांगसूत्रं, समयपाहुडं, पवयणसारादि आगमग्रन्थाः। प्राकृतलक्षणं, प्राकृतप्रकाशं, सिद्धहैमशब्दानुशासनं सदृशाः व्याकरणग्रन्थाः। गाहासत्तसई, वज्जालग्गं, मुक्तकग्रन्थं। समराइच्चकहा, लीलावईकहा, कुवलयमालाकहा, कथाग्रन्थं। पउमचरियमादि चरित्रग्रन्थाः समाहिताः सन्ति। अस्याः नियमितरूपेण अध्ययनाध्यपनस्य कार्यं प्राकृतभाषाविभागेन क्रियते।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 सुदीपकुमारजैनः प्रो. सुदीपकुमारजैनः प्राकृतविभागः आचार्यः
2 कल्पना जैनः प्रो. कल्पना जैनः प्राकृतविभागः आचार्यः
3 विकास चौधरी डॉ विकास चौधरी प्राकृतविभागः सहायकआचार्य