नियम-विनियमाः

सामान्यनियम:

  • ग्रन्थालये केवलं पञ्जीकृतसदस्यप्रवेश एव मान्यः।
  • पुस्तकालयप्रवेशसमये द्वारे स्थापितसञ्चिकाप्रविष्टिः पूरयित्वा तथा स्वस्य स्यूतम्, छत्रम्, पुस्तकानि, मुद्रितसामग्रीः इत्यादयः यथास्थानं संस्थाप्य पुस्तकालये प्रविशेत्। कपाटे आसन्नकर्मचारिणं स्वप्रवेश-पत्रम् दर्शनीयमेव। प्रवेश-पत्रं विना पुस्तकालयप्रवेशो वर्जितः।
  • ग्रन्थालये व्यक्तिगतवस्तूनां तथा मुद्रितपुस्तकानाम् सी0 डी0, डी0 वी0 डी, लैपटॉप, गोणी, छत्रम् इत्यादीनाम् आनयनम् वर्जितम्। उपर्युक्तवस्तु यथास्थानं स्थापयित्वैव प्रविशेयुः। बहुमूल्यवस्तूनि, धनम्, आभूषणम् इत्यादयः द्वारे न स्थापनीयानि, , तानि वस्तूनि स्वस्य सकाश एव स्थापनीयानि। एतादृग्वस्त्वानयने यदि तानि लुप्तानि जातानि तस्मिन् पुस्तकालयस्य उत्तरदायित्वं न वेत्स्यते।
  • विद्यार्थिभ्यः 15 दिनेभ्यः पुस्तकानि प्रदीयन्ते । यदि पुस्तकानि 15 दिनेषु न प्रतिदास्यन्ते तर्हि पुस्तकेषु 01रुप्यकं प्रतिदिनं यावत् स्वीकरिष्यति शुल्कं देयं भविष्यति।
  • छात्रेः एकस्यैव पुस्तकस्य प्रतिद्वयं न निर्गतं करिष्यते। विना परिचयपत्रं प्रदर्श्य पुस्तकं निर्गतं न वेत्स्यते ।
  • सामान्यतः स्नातकस्य एवं स्नातकोत्तरस्य विषयस्य पाठ्यपुस्तकानि शिक्षाशास्त्रिच्छात्रेभ्यस्तथा शिक्षा-शास्त्रिपाठ्यपुस्तकानि स्नातकोत्तरेभ्यः/स्नातकेभ्यः छात्रेभ्यः न निर्गतं विधास्यते।
  • सन्दर्भपुस्तकानि, कोशः तथा बहुमूल्यपुस्तकानि निर्गतानि (इशू) न भविष्यन्ति ।
  • पुस्तकलुप्ते सति /नष्टे सति ईदृश्यां स्थितौ पुस्तकग्राहिनः पुनः पुस्तकं पुस्तकालयाय प्रतिदास्यति वा तस्यमूल्यात् पञ्चगुणितं मूल्यमर्पयिष्यति। पाठकेन पुस्तकं सम्यग्रूपेण दृष्ट्वा स्वीकर्त्तव्यम्। दोषयुक्तपुस्तकाय पुस्तकालयाध्यक्षः सूचनीयो वा तत्सम्बन्धितकर्मचारिणः हस्ताक्षरं स्वीकर्तव्यम् । पुस्तकप्रतिदानसमये तस्मिन् निहितदोषाणाम् उत्तरदायित्वं छात्रस्य भविष्यति तथा सैव नूतनपुस्तकम्/नियमानुसारेण मूल्यमर्पयिष्यति ।
  • पुस्तकेषु लेखन्या वा अङ्कन्या लेखनम्, अङ्कनम्, चित्रणम् वर्जितम् वा पृष्ठविदारणं वर्जितम्।
  • पुस्तकालयात् असाधुतया पुस्तकानि/पत्राणि -पत्रिकाः बहिरानयने वा पृष्ठविदारणस्य स्थितौ निग्रहणे सम्बन्धितछात्राणां पुस्तकालयीयसदस्यता तत्कालमेव समाप्तं भविष्यति तथा पुस्तकालयप्रवेशे प्रतिबन्धो भविष्यति तथा सुरक्षितधनमपि प्रतिबद्ध्वा अग्रिमानुशासनात्मककार्यवाहिहेतु प्रेषयिष्यन्ति, यस्मिन् निष्कासनमपि भविष्यति ।
  • वार्षिकपरीक्षायाः पूर्वमेव समानि पुस्तकानि तथा पाठक-पत्रम् प्रतिदेयानि भविष्यन्ति , अन्यथा परीक्षा-प्रवेश-पत्रम् प्राप्त्यर्थम् अदेयताप्रमाण-पत्रम् न दास्यते। पुस्तकालयकार्डलुप्ते सति पुनः कार्डनिर्माणाय एकस्मै कार्डाय 40 रुप्यकानि अर्पणीयानि भवन्ति।
  • पाठकपत्रम् अहस्तान्तरणीयमस्ति। पुस्तकालयेन दत्तस्य पाठक-पत्रस्य केवलं सदस्य एव प्रयोगं करिष्यति। अन्यव्यक्तिः कस्यापि सदस्यस्य पाठक-पत्रे पुस्तकं न स्वीकर्तुं शक्नोति। इत्थं करणे सम्बन्धितच्छात्रस्य पुस्तकालयसदस्यता समाप्ता भविष्यति।
  • पुस्तकालये शान्तिपूर्वकं उपवेशनम् एवम् अध्ययनम् अपेक्षितम्। कथञ्चिदपि कोलाहलः, उच्चस्वरे वार्तालापः तथा दूरवाणीप्रयोगो वर्जितः।
  • पाठकगणः पत्रिकाः पठित्वा यथास्थानं स्थापयेत्, विना स्वीकृतिं किञ्चनापि पुस्तकं वा पत्रम्-पत्रिकाः पुस्तकालयाद् बहिर्निस्सारणं वर्जितम्। पत्रिकाः वाचनकक्षे पठितुं स्वपरिचय-पत्रम् प्रदायाप्तुं शक्नुवन्ति।
  • यदि कश्चित् पाठकः पुस्तकालयीयपुस्तकं पुस्तकालयान्त एव उपविश्य अधिजिगमीषेत तर्हि तेनाभ्यन्तरनिर्गमनं करणीयम्।
  • पुस्तकालयनियमपालनावहेलनया कस्यचिद् व्यक्तेः सदस्यतां समापितुम् अधिकारः पुस्तकालायाध्यक्षस्य सकाशे विद्यते।
  • यदि आवश्यकं भविष्यति तर्हि पुस्तकालयाध्यक्षः पुस्तकानि समयात् पूर्वमपि प्रतिदातुमादिक्षति ।
  • पुस्तकालयाध्यक्षसंस्तुत्या कुलपतिस्वीकृत्यनन्तरम् अन्यविश्वविद्यालयानां शोधच्छात्रा एवं अन्यपुस्तकालय-ग्रन्थ-पिपठिषुव्यक्तयोऽपि पुस्तकालयविशेषसदस्यतां निर्धारितम् रु0 1000/- सुरक्षितधनम् तथा 500 रू0 वार्षिकशुल्कम् अर्पयित्वा प्राप्तुमर्हन्ति।
  • सक्षमाधिकार्यनुमोदनोपरान्तम् पुस्तकालयेन कश्चिदपि नियमः च्युतीकरिष्यते उत परिवर्तयेत।