न्यायविभागः

Head of Department Dean of the Faculty

प्रो. महानन्दझाः
आचार्यः, न्यायविभागः

न्याय-वैशेषिकविभागे प्राचीनन्याय-नव्यन्याययोर्द्वयोर्विषययोरध्ययनम् अध्यापनं च भवति। तयोः परिचयः अधस्तात् प्रदीयते ।

प्राचीनन्यायवैशेषिकम्

तत्र प्रप्रथमं प्राचीनन्यायः – अस्य विषयस्य अध्ययनं कुर्वन्तः छात्राः प्रमुखरूपेण प्राचीनन्यायदर्शन-वैशेषिकदर्शनयोः प्रारम्भिकग्रन्थानाम् अध्ययनं कुर्वन्ति । प्राचीनन्यायस्य प्रथमो ग्रन्थः न्यायसूत्रम् अस्ति । अस्य रचयिता महर्षिगौतमः अस्ति । ग्रन्थोऽयम् आन्वीक्षिकी, न्यायविद्या, न्यायदर्शनम्, न्यायशास्त्रम्, तर्कशास्त्रम् इति नाम्ना अपि व्यवह्रियते । अस्मिन् दर्शने षोडश पदार्थाः तत्त्वानि वा स्वीक्रियन्ते । ते च षोडश पदार्थाः प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्कनिर्णयवादजल्प-वितण्डाहेत्वाभास-च्छलजाति-निग्रहस्थानानि । एषां पदार्थानां विशदविवेचनम् अस्मिन् ग्रन्थे कृतं विद्यते । न्यायशास्त्रविषये महतां राजनीतिज्ञानां कौटिल्यमहोदयानां मतमस्ति यत् शास्त्रमिदं सर्वविद्याप्रकाशकं वर्तते ।

प्रदीपः सर्वविद्यानाम् उपायः सर्वकर्मणाम् ।
आश्रयः सर्वधर्माणां सेयमान्वीक्षिकी मता ।।

प्रायः सर्वेऽपि न्यायदर्शनग्रन्थाः न्यायसूत्रग्रन्थाधारिताः सन्ति ।

वैशेषिकदर्शनम्

वैशेषिकदर्शनम्- कणाददर्शनम्, औलूक्यदर्शनम् नाम्ना अपि ज्ञायते । वैशेषिकदर्शनस्य प्रथमग्रन्थः वैशेषिकसूत्रम् अस्ति । अस्य रचयिता महर्षिकणादः । वैशेषिकदर्शने द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाभावाः सप्त पदार्थाः स्वीकृताः सन्ति । एषामेव विशदविवेचनं वैशेषिकसूत्रे वर्तते। विशेषपदार्थस्वीकृतत्वात् अस्य दर्शनस्य वैशेषिकं नाम । वैशेषिकदर्शनस्य सर्वेऽपि ग्रन्थाः वैशेषिकसूत्रग्रन्थाधारिताः सन्ति । अधुनातने युगे विशेषतः प्रसिद्धानां भौतिकविज्ञानानां सिद्धान्तानां मूलरूपं वैशेषिकदर्शने प्राप्यते येषु परमाणुः , गुरुत्त्वाकर्षणम्, प्रक्षेपणं प्रभृतयः प्रमुखाः सिद्धान्ताः सन्ति ।

द्वित्त्वे च पाकजोत्पत्तौ विभागे च विभागजे ।
यस्य न स्खलिता बुद्धि तं वै वैशेषिकं विदुः ।।

अनया सूक्त्या स्पष्टीभवति यत् अस्मिन् दर्शने द्वित्त्वसंख्यायाः, पाकजोत्पत्तेः, विभागजविभागस्य च विशेषचर्चा वर्तते । न्यायदर्शनस्य वैशेषिकदर्शनेन सह न कोऽपि विरोधः । येन अनयोः समानतन्त्रत्वं स्वीक्रियते । अनयोः दर्शनयोरध्यनेन छात्रेषु तार्किकक्षमताया विकासो भवति । विशेषयुक्त्या तर्केण वा सः कमपि विषयम् अवबोद्धुं सक्षमो भवति ।

अस्मिन् दर्शने सृष्टेरारम्भः परमाणोः स्वीकृतः अस्ति । संसारस्य प्रमुखाणां पञ्चतत्त्वानां पृथ्वी-जल-तेजो-वाय्वाकाशानां वैज्ञानिकी चर्चा अत्र प्राप्यते ।

सृष्टेराधारस्य परमाणोः समीक्षणं कुर्वता न्यायवैशेषिकदर्शने स्पष्टरूपेण उक्तमस्ति यत् –

जालान्तर्गते भानौ यत् सूक्ष्मं दृश्यते रजः ।
तस्य षष्ठतमो भागः परमाणुः स उच्यते ।।

यदा गृहे वातायनजालात् सूर्यरश्मयः प्रविशन्ति तदा एतेषां रश्मीनां मध्ये वहनशीलाः सूक्ष्मातिसूक्ष्माः कणाः दृश्यन्ते । एकस्य कणस्य षष्ठतमो भागः परमाणुरिति स्वीक्रियते । अयं परमाणुसिद्धान्तः प्रायः मूलरूपेण आधुनिकवैज्ञानिकानां सिद्धान्तैः सह समानः । परिणामतः अस्य दर्शनस्य विशिष्टं ज्ञानं भविष्यति विज्ञानक्षेत्रे गभीरानुसन्धानदृष्ट्या अत्यन्तोपादेयमस्ति ।

नव्य-न्यायः

अस्य विषयस्य अध्ययनं कुर्वन्तः छात्राः प्रमुखरूपेण तत्त्वचिन्तामणिनामकग्रन्थस्य अध्ययनं कुर्वन्ति । “तत्त्वचिन्तामणिः” नव्य-न्यायग्रन्थस्य प्रथमो ग्रन्थः । अस्य ग्रन्थस्य रचयिता आचार्यो गङ्गेशोपाध्यायः । नव्य-न्यायः विशेषतो मूलरूपेण न्यायसूत्रेष्वेव आधारितः। न्यायदर्शनस्य प्रमाण-प्रमेयादिषोडशपदार्थानामेव नव्य-न्यायग्रन्थेषु विशिष्टभाषायां शैल्यां च प्रतिपादनमस्ति । प्राचीनन्याये प्रमेयाणां चर्चा प्रधानतया विहिता परं नव्यन्याये प्रमाणानां चर्चा प्रमुखरूपेण गङ्गेशोपाध्यायेन विहिता ।

नव्यन्यायग्रन्थानां भाषा प्रकारता, विशेष्यता, संसर्गता, प्रतियोगिता, अनुयोगिता, अवच्छेदकता, अवच्छेद्यता, निरूपकता, निरूप्यता, कारणता-कार्यता, प्रतिबन्धकता-प्रतिबध्यता, अधिकरणता-आधेयता, व्याप्यता-व्यापकता, विषयता-विषयिता इत्यादिविशिष्टपारिभाषिकशब्दैः संयुतः । एभ्यः शब्देभ्यो निर्मिता नव्य-न्यायभाषा अध्येतारं कस्यापि पदार्थस्य सूक्ष्मातिसूक्ष्मरहस्यान् स्पष्टीकर्तुम् उपयोगिनी विद्यते । अतएव शास्त्रज्ञैः समीक्षकैश्च शास्त्रीयविषयाणां सूक्ष्मरूपेण बोधयितुं समर्थत्वात् इयं न्यायभाषा सादरं स्वीकृता अस्ति । संगणकविज्ञैरपि भाषेयं संगणकस्य कृते सर्वाधिकोपयोगिनी प्रतिपादिता ।

इत्थं नव्य-न्यायस्य अध्ययनेन न्यायदर्शनस्य वैशेषिकदर्शनस्य च गूढरहस्यान् अवबोधयितुं न केवलं वयं समर्थाः भवामः, अपितु व्याकरण-ज्योतिष-साहित्यादिशास्त्राणाम् अवबोधनक्षमता अपि सारस्येन प्राप्तुं शक्नुमः । नव्यन्यायस्याध्ययनेन सर्वप्रकारकाज्ञानस्य विनाशो भवति, बुद्धिश्च निर्मला भवति । संस्कृतपदानां व्यवहारशक्तिः सूते। शास्त्रान्तराणाम् अभ्यासयोग्यतया युनक्ति। अतः तर्कशास्त्रे कृतपरिश्रमः छात्रः सर्वप्रकारेण उपकारी भवति । विश्वगुणादर्शचम्पूशास्त्रे सत्यमेवोक्तं यत् -

“मोहं रूणद्धि विमलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम्।
शास्त्रान्तराभ्यसनयोग्यतया युनक्ति तर्कश्रमो न कुरुते कमिहोपकारम्” ।।

इयम् आन्वीक्षिकी न्यायविद्या सुधीजनानां सर्वविधप्रयोजनानि साधयति। सर्वदर्शनानां प्रतिष्ठितो विद्वान् श्रीवाचस्पतिमिश्रः न्यायभाष्यस्य व्याख्यायां कथयति – “भाष्यकारास्तु नास्त्येतत् प्रेक्षावतां प्रयोजनम् , यत्रान्वीक्षिकी न निमित्तं भवति।”

प्रत्यक्ष-शब्दप्रमाणाभ्यां ज्ञातविषयस्य पुनः विषयस्य इक्षणं (परीक्षणं) क्रियते तदेव अन्वीक्षाशब्देन उच्यते । यस्मिन् शास्त्रे अनेन प्रकारेण सर्वविषयाणाम् अन्वीक्षां कुर्वन् तत्त्वनिर्धारणं क्रियते तच्छास्त्रम् आन्वीक्षिकी इत्युच्यते।

अतः इयम् आन्वीक्षिकी वस्तुतः भारतीयानुसन्धानशास्त्रम् अस्ति, प्रतिशास्त्राणां च उपयोगिनी इति संयुक्तिः प्रमाणिता भवति ।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 पीयूषकान्तदीक्षितः प्रो. पीयूषकान्तदीक्षितः न्यायविभागः आचार्यः
2 बिष्णुपदमहापात्रः प्रो. बिष्णुपदमहापात्रः न्यायविभागः आचार्यः
3 महानन्दझाः प्रो. महानन्दझाः न्यायविभागः आचार्यः
4 रामचन्द्रशर्मा डॉ रामचन्द्रशर्मा न्यायविभागः सहाचार्यः