जैनदर्शनविभागः

Head of Department Dean of the Faculty

डॉ कुलदीपकुमारः
आचार्यः, जैनदर्शनविभागः

भारतीयसभ्यतायाः आदिकालादेव जैनधर्मस्य विद्यमानताय: प्रमाणानि उपलभ्यन्ते | भारतीयवाङ्मयस्य प्राचीनतायाः निर्देशकाः ग्रनथाः ऋग्वेदादयः वेदाः सन्ति| तेष्वपि अर्हर्तां व्रात्यानां व वर्णनं उपलभ्यन्ते, ते वस्तुतः जैनाः एव सन्ति| उपनिषत्सु यत्र तत्र अपि श्रमणानां चर्चा उपलभ्यते| वेदेषु जैनतीर्थंकराणां मुख्यतः ऋषभदेवस्य अजितनाथस्य अरिष्टनेमेः च वर्णनं प्राप्यते| भारतगणतन्त्रस्य पूर्वराष्ट्रपतयः विश्वप्रसिद्धदार्शनिकाश्च डॉo सर्वपल्ली राधाकृष्णमहोदयाः अपि लिखन्ति-

‘There is evidence to show that so far back as the first century B.C. there were people who were worshipping Ṛṣabhadeva, the first tīrthaṅkara. There is no doubt that Jainism prevailed even before Vardhamāna or Pārśvanātha. The Yajurveda mentions the name of three Tīrthaṅkaras-Ṛṣabha, Ajitnātha and Ariṣṭanemi. The Bhāgavata Purāṇa endorses the view that Ṛṣabha was the founder of Jainism.(Indian philosophy Vol I Page 287)

वैदिककालात् व्रात्यपरम्परायाः प्रमाणानि उपलभ्यन्ते, अतः ज्ञायते यत् जैनधर्मः विश्वस्य एकं प्राचीनतमं दर्शनमस्ति| मोहनजोदडो-हडप्पा-सभ्यताषु ध्यानमग्नयोगिनंमूर्तयः उपलभ्यन्ते| येन ज्ञायते यत् भारतीयपरम्परायां ध्यानयोगस्य प्रतिपादनं प्राचीनं विद्यते|”
प्राचीनकाले जैनधर्मस्य अभिधानं व्रात्यधर्मः इत्यपि आसीत्| न केवलं जैनसाहित्यं अपितु वैदिकसाहित्ये, पुराणे बहुशः उल्लिखितमस्ति यत् अस्माकं देशस्य अभिधानं भारतवर्षमिति ऋषभदेवस्य ज्येष्ठपुत्रभारतस्य नाम्ना एव विख्यातं आसीत्| ऋषभदेवानन्तरं त्रयोविंशतितीर्थंकराः संजाताः तेषु अन्तिमः तीर्थंकरः भगवान् महावीरः अस्ति| येन अखिलविश्वे जैनधर्मस्य प्रवर्तनं कृतं| चतुर्विंशतितमः तीर्थंकरमहावीरः विशिष्टता धारयति स्म, यैः सर्वेभ्यः जीवेभ्यः आध्यात्मिकोन्नतेः प्राणिमात्रहिताय शान्तेः धर्मनिरपेक्षतया च शिक्षा प्रदत्ता|

तीर्थंकरभगवतः महावीरस्य शिक्षा अद्यापि तथैव महत्त्वपूर्णा प्रसंगिका अस्ति यथा तेषां समये षड्द्विसहस्त्रवर्षपूर्वं आसन्| तैः मुख्यरूपेण या शिक्षा प्रदत्ताः तासु मुख्याः सन्ति अहिंसा, अनेकान्तवादः, अपरिग्रहवादश्च| तैः सर्वदा सत्यानुसन्धानस्य प्रेरणा प्रदत्ता| तैः उपदिष्टं यत् अस्माभिः सत्यस्य साक्षात्कारः करणीयः|

देश विदेशेषु जैनदर्शनस्य अध्ययनं

भारतवर्षे अनैकविश्वविद्यालयेषु संपूर्णानन्दविश्वविद्यालयेषु, मद्रासविश्वविद्यालयेषु, मैसूरविश्वविद्यालये, राजस्थानविश्वविद्यालये, राष्ट्रियसंस्कृतसंस्थाने जयपुरपरिसरे भोपालपरिसरे च मोहनलालसुखाडियाविश्वविद्यालय, जैनविश्वभारतीविश्वविद्यालयेषु जैनदर्शनस्य अध्ययनं भवति| विदेशेषु अपि लन्दनविश्वविद्यालये, मास्कोविश्वविद्यालये, जर्मनीविश्वविद्यालये, अमरीकाविश्वविद्यालये, यूरोपविश्वविद्यालये च जैनधर्मस्य अध्ययनं प्रचलति|

जैनसाहित्यम्

जैनदर्शनस्य सहस्राधिकाः ग्रन्थाः प्राचीनकालादेव उपलब्यन्ते – प्राकृत संस्कृत अपभ्रंश तमिल कन्नड प्राचीनहिन्दी गुजराती राजस्थानी माराठ्यादयः भाषासु| जैनदर्शनस्य उपदेशाः मूलतः प्राकृतभाषायां सन्ति| ते प्राकृतागमाः इति उच्यन्ते| जैनाचार्यैः जीवनस्य प्रायः सर्वेविषयाः प्रतिपादितः सन्ति यथा- दर्शनशास्त्रं तर्कशास्त्रं इतिहासशास्त्रं जीवविज्ञानशास्त्रं धातुविज्ञानशास्त्रं व्याकरणशास्त्रं साहित्यशास्त्रं छन्दशास्त्रं कलाशास्त्रं सौन्दर्यशास्त्रं नाट्यशास्त्रं संगीतशास्त्रं वास्तुशास्त्रं मूर्तिकलाशास्त्रं आयुर्वेदशास्त्रं शरीरक्रियाशास्त्रं मनोविज्ञानशास्त्रं राजनीतिशास्त्रं शब्दकोशशास्त्रं विश्वकोशशास्त्रं काव्यशास्त्रं कथाशास्त्रं इत्यादयः|

आधुनिकयुगेपि लेखकैः प्रचुररूपेण जैनसाहित्यं विरचितं वर्तते तत् च हिन्दी जर्मन आङ्गल रूसी आदि अनेकाषु भाषासु वर्तते| जैनदर्शनस्य प्रथमः संस्कृतसूत्रग्रन्थः तत्त्वार्थसूत्रं इति वर्तते यः आचार्योमास्वामिभिः प्रथमाशताब्द्यां विरचितोऽस्ति| अस्य ग्रन्थस्य उपरि अनेकाः टीकाः अपि विलसन्ति| जैनदर्शनविभागे छात्राः मूल ग्रन्थाः पाठयन्ते|

पूर्णकालिकपाठ्यक्रमः

  1. शास्त्रिः (B. A.) त्रिवर्षीयस्नातक: जैनदर्शनपाठ्यक्रमः
  2. आचार्य: (M. A.) द्विवर्षीयस्नातकोत्तर: जैनदर्शनपाठ्यक्रमः
  3. विशिष्टाचार्य: (M. Phill) स्नातकोत्तर-पश्चात एकवर्षीयशोधपाठ्यक्रम:
  4. विद्यावारिधि: (Ph.d) न्यूनतम 3 वर्षीय शोधोपाधि:

अंशकालिकपाठ्यक्रमः

  1. एकवर्षीय जैनविद्या- डिप्लोमापाठ्यक्रमः
  2. जैनविद्या-प्रमाणपत्रीयपाठ्यक्रमः

अन्य गतिविधियां

  1. राष्ट्रीयसंगोष्ठ्यां आयोजनम्
  2. विविधकार्यशालायाः आयोजनम्
  3. राष्ट्रीय/अंतरराष्ट्रीय विदुषां व्याख्यानम्
  4. मासिक-छात्रसंगोष्ठी/संवादस्य आयोजनम्
  5. NET/JRF/B.ed/CTET प्रतियोगीपरीक्षायाः प्रशिक्षणम्
  6. लेखनभाषणकौशलयोः प्रशिक्षणम्
  7. सर्वजनेभ्यः स्वाध्यायकक्षायाः आयोजनम्

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 वीरसागरजैनः प्रो. वीरसागरजैनः जैनदर्शनविभागः आचार्यः
2 अनेकान्तकुमारजैनः प्रो. अनेकान्तकुमारजैनः जैनदर्शनविभागः आचार्यः
3 कुलदीपकुमारः डॉ कुलदीपकुमारः जैनदर्शनविभागः आचार्यः