सांख्ययोगविभागः

Head of Department Dean of the Faculty

प्रो. मारकंडेयनाथतिवारी
आचार्यः, सांख्ययोगविभागः

सांख्ययोगस्य अध्येतारश्छात्रः प्रमुखरूपेण सांख्ययोगदर्शनस्य आधारभूतानां ग्रन्थानामध्ययनं कुर्वन्ति। सांख्यदर्शनस्य प्रथमो ग्रन्थः महर्षिकपिलप्रणीतः ‘‘सांख्यसूत्रम्’’ अस्ति। प्रसिद्धाचार्यः श्रीईश्वरकृष्णविरचिता ‘‘सांख्यकारिका’’ अस्य दर्शनस्य अत्यन्तः प्रामाणिकः ग्रन्थः विद्यते। अस्मिन दर्शने कश्चित् पदार्थः केवलं प्रकृतिरूपः अस्ति, कतिचित् पदार्थाः प्रकृतिविकृतिरूपाः, कतिचित् च केवलं ‘‘विकृतिरूपाः, एवं कतिचित् न प्रकृतिरूपा न वा विकृतिरूपा। अनेन प्रकारेण सांख्यदर्शनस्वीकृतानां प×चविंशतिपदार्थानां चतुर्षुवर्गेषु विभाजनं विद्यते।

कपिलप्रणीतसांख्यदर्शने ईश्वरसत्तानघõीकारादिदंनिरीश्वरसांख्य इति कथ्यते। आस्मिन् दर्शने प×चविंशतिः तत्त्वानि निरूपितानि। यथा- प्रकृतिः, महत्तत्त्वं, प×चज्ञानेन्द्रियाणि (घ्राण-रसन-चक्षुस्त्वक्श्रोत्रणि) प×चकर्मेन्द्रियाणि-(वाक्पाणिपादपायूपस्थरूपाणि) मनः, प×चतन्मात्रणि-(गन्ध-रस-रूप-स्पर्श-शब्द रूपाणि) प×चमहाभूतानि-(पृथ्वी-जल-तेजो वाÕवाकाशरूपाणि) एवं पुरुषः इति।

योगदर्शनस्य प्रथमो ग्रन्थो महर्षिपत×जलिप्रणीतः ‘‘योगसूत्रम्’’ अस्ति। इदं दर्शनं ‘‘पात×जलयोगदर्शन’’ नाम्नापि विज्ञायते। योगदर्शने{पि सांख्यदर्शनस्य प×चविंशतिः तत्त्वान्येव स्वीकृतानि, केवलं ‘‘पुरुषविशेष’’रूपेण ‘‘ईश्वर’’ नामकः पदार्थः अत्र अतिरिक्तः स्वीकृतः। अतएव योगदर्शनं ‘‘सेश्वरसांख्यदर्शनम्’’ इति कथ्यते।

अस्मिन् दर्शने मनुष्यस्य चित्तवृत्तीनां निरोधः कथं सम्भवतीति विस्तारेण विज्ञाप्यते। प्रसघõादत्र योगासनानां विभिन्नसिद्धीनामपि मनोहरं विवेचनमुपलम्यते। सम्प्रति सम्पूर्ण विश्वस्य मानवः योगमाध्यमेन स्वशरीरस्य स्वास्थ्याय एवं दीर्घजीवनस्य कृते अस्य दर्शनस्य अध्ययने संलग्नो विद्यते।

‘‘नास्ति सांख्यसमंशास्त्रं नास्ति योगसमं बलम्’’।
इति भारतीया मान्यता सांख्ययोगदर्शनस्य अप्रतिमं महत्त्वं सम्प्रकाशयति।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 महेशप्रसादसिलोडी प्रो. महेशप्रसादसिलोडी सांख्ययोगविभागः आचार्यः
2 मारकंडेयनाथतिवारी प्रो. मारकंडेयनाथतिवारी सांख्ययोगविभागः आचार्यः