‘पूजितविचारवचनो मीमांसाशब्दः’ इति मीमांसाशब्दस्य लक्षणया पूजितविचार इत्यर्थःl ''कर्मेति मीमांसका'' इति वचनमनुसृत्य मीमांसाशास्त्रे कर्म एव ईश्वरशब्देन अभिधीयतेl अस्य शास्त्रस्य मूलग्रन्थः जैमिनिप्रणीतं यस्य द्वादशलक्षणी इत्यभिधयापि प्रसिद्धिरस्तिl यतः अत्र द्वादश-अध्यायाः सन्तिl अस्य दर्शनस्य प्रवर्तकः महर्षिजैमिनिः, धर्मस्य लक्षणं किम् ? एवं धर्मे प्रमाणानि कानि? इत्याद्यवगमयितुम् इदं शास्त्रं प्रवृत्तमस्तिl अत एव प्रथमसूत्रम् ''अथातो धर्मजिज्ञासा'' इतिl शास्त्रेऽस्मिन् प्रायेण सहस्राधिकरणानि सन्तिl सर्वेश्वप्यधिकरणेषु कृत्याकृत्यरूपेण धर्माधर्मविचार एव मुख्यरूपेण विचारितःl प्रत्येकऽस्मिन् अधिकरणे विषयः, संशयः, पूर्वपक्षः, सिद्धान्तः, सङ्गतिरिति च पञ्च अवयवाः सन्तिl एतेषु विषयेषु विभगोऽयम् अत्यन्तमपि दक्षःl
मीमांसाविभागः
Head of Department

डॉ ए. एस. अरावमुदन्
आचार्यः, मीमांसाविभागः
संकायविवरण:
क्रमांक: | चित्रम् | नाम | विभाग | पद |
---|---|---|---|---|
1 | ![]() |
डॉ ए. एस. अरावमुदन् | मीमांसाविभागः | आचार्यः |
2 | ![]() |
डॉ राजेश कुमार गुर्जर | मीमांसाविभागः | सहायकाचार्यः |