योगविभागः

योगः शारीरिकमानसिकविकासाय विश्वस्य प्राचीनतमः प्रमुखश्च तन्त्रोऽस्ति । सहस्रेभ्यो वर्षेभ्यो भारते योगिभिः ऋषिभिः मनीषिभिश्च योगस्य अभ्यासः क्रियते । येन जीवनस्य परमलक्ष्यभूतं कैवल्यं (मोक्षं) प्राप्तुं शक्यते । योगविद्यया मानसिकशान्तेः शारीरिकसंतुलनस्य च प्रभावो लक्षितो भवति, अनया मेरुदण्डे मृदुता स्नायुतन्त्रे च निरन्तरं वृद्धिं भवति । अनया विद्यया शनैः शनैः मूलाधारादिषट्चक्रभेदनमपि भवति । योगासनक्रिया अन्यव्यायामादिक्रियाभ्यः सर्वथा भिन्ना वर्तते । यतः योगक्रियायां श्वासप्रणालीं केन्द्रीकृत्य योगाभ्यासः क्रियते ।

मानवः योगप्रणालीद्वारा स्वस्य विलुप्तं स्वास्थ्यं प्राप्तुं शक्नोति । इयं प्रणाली मानसिकशान्तिं जनयति, आत्मतत्त्वे च गुप्तशक्तीनाम् उद्घाटनं करोति । स्वस्य संकल्पशक्तौ च सहैव प्रचुरं वृद्धिं करोति । एवञ्च जीवनस्य समस्तेषु क्षेत्रेषु साफल्यं प्राप्यते । मानवः अनया प्रणाल्या आत्मसाक्षात्कारस्य उत्कृष्टशिखरे आसीनो भवति । अर्थात् आत्मस्वरूपज्ञाने सक्षमो भवति । उक्तं च - “तदा द्रष्टुः स्वरूपेऽवस्थानम्” इति ।

योगक्रियासनं मनःशरीरयोः सूक्ष्मसम्बन्धस्य पूर्णज्ञानाधारितम् एकम् अद्भुतं मनःशारीरिकतन्त्रम् अस्ति । अन्येषां सर्वेषां कर्म-राज-भक्ति-ज्ञानादियोगानां सिद्धये इयं योगासनप्रणाली अन्यतमा साधनप्रक्रिया अस्ति ।

भगवान् हिरण्यगर्भः योगस्य प्रथम उपदेष्टा इति आमन्यते । तथाहि हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । परन्तु योगदर्शनस्य सूत्रकाररूपेण महर्षिः पतञ्जलिः योगदर्शनवाङ्मयेतिहासे प्रप्रथमेन स्वीक्रियते । योगः समाधिरिति स्वीकुर्वन् “योगश्चित्तवृत्तिनिरोधः” इत्यादिसूत्रैः महर्षिणा योगशास्त्रस्य प्रतिपादनम् आरम्भश्च महर्षिणा कृतः, येषां समेषाम् उल्लेखः योगशास्त्रे वर्तते । योगदर्शने मुख्यतः अष्टाङ्गयोगस्य वर्णनं वर्तते , यस्मिन् योगस्य अष्टाङ्गानां विस्तृतरूपेण प्रतिपादनं कृतमस्ति । एषु अष्टाङ्गेषु यः अष्टमोऽङ्गः समाधिरूपः तमपि द्विधा विभज्य समाधेः गूढरहस्यानां प्रतिपादनं कृतं विद्यते । अन्ते च योगस्य मोक्षरूपं फलमपि प्रमाणपूर्वकम् उपन्यस्तम्। उक्तं च विद्यते - जीवनमेव योगः , योग एव जीवनम् इति ।

विश्विद्यालयेन 2011-12 सत्रे योगविज्ञानकेन्द्रस्य स्थापना कृता, यस्मिन् षाण्मासिक-पाठ्यक्रमः एकवर्षीयस्नातकोत्तरपाठ्यक्रमश्च सञ्चालितो विद्यते । अद्य प्रभृति प्रायः सहस्रसंख्याकाः विद्यार्थिनः सफलतया योगविद्याम् अधिगम्य देश-विदेशेषु योगविद्यायाः प्रचार-प्रसाराय सेवारताः सन्ति ।

वर्तमाने मानवजीवने मानसिक-शारीरिकाणाम् आधिव्याधीनां मूलतः शमनाय, योगविद्यायाः अनुकूलव्यवहारिकं पक्षं स्वीकृत्य भारत-सर्वकारेण देशस्य नैकविश्वविद्यालयेषु योगविभागः स्थापितः । अस्मिन्नेव क्रमे नवदेहलीस्थे श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविश्विद्यालय:ऽपि विश्वविद्यालयानुदानायोगेन स्वतन्त्रविभागरूपेण योगविभागः अनुमोदितः । यस्मिन् स्नातक-स्नातकोत्तरकक्षाश्च प्रचाल्यमानाः सन्ति ।

वर्तमाने सत्रे 2018 - 2019 बी. ए. योगकक्षायां प्रवेशाय 50 स्थानानि निश्चितानि । एम्.ए. कक्षायां च प्रवेशाय 100 शतं स्थानानि निश्चितानि । विद्यार्थिनश्च अस्मिन् विभागे अध्ययनं कुर्वन्तो वर्तन्ते । विभागेनानेन निम्नलिखितपाठ्यक्रमाणाम् अध्यापनं क्रियते ।

विभागेनानेन योगविषये एकवर्षीयस्नातकोत्तरडिप्लोमापाठ्यक्रमः संचाल्यते यत्र प्रवेशाय 150 स्थानानि निश्चितानि । षाण्मासिकपाठ्यक्रमाय च 50 स्थानानि निश्चितानि । एकमासिकपाठ्यक्रमस्य त्रैमासिकपाठ्यक्रमस्य च संचालनाय अनुमतिश्च प्राप्ता विद्यते

योगपाठ्यक्रमेषु निम्नलिखितानां विषयाणाम् अध्यापनं क्रियते ।

योगस्याधारभूतः सिद्धान्ताः - मानवचेतनाविज्ञानम् श्रीमद्भागवद्गीता, सांख्यदर्शनम्, शरीरविज्ञानम्, योगमनोविज्ञानम्, पातञ्जलयोगसूत्रम्, योगस्य शिक्षणसिद्धान्तः, शोधप्रविधिः, सांख्यिकी, यौगिकचिकित्सा, उपनिषद्, भारतीयदर्शनम्, प्राकृतिकचिकित्सा, मर्मचिकित्सा, योगकौशलविकासः, संगणकम् इत्यादिविषयाः योगसिद्धान्ताः सन्ति ।

विभागेन योगप्रशिक्षणं प्रतिदिनं प्रचाल्यते ।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 रमेश कुमार डॉ रमेश कुमार योगविभागः सहायकाचार्यः
2 विजय सिंह गुसाईं डॉ विजय सिंह गुसाईं योगविभागः सहायकाचार्यः
3 नवदीप जोशी डॉ नवदीप जोशी योगविभागः सहायकाचार्यः