अद्वैतविभागः

सामान्यरूपेण भारतीयदर्शनं प्रबोधयत्सु अनेकेषु पारम्परिकेषु विश्वविद्यालयेषु सत्सु तेभ्यः भिन्नं तिष्ठत् अद्वैतवेदान्तशास्त्रस्य गहनं गभीरं तत्केन्द्रितमध्ययनम् अध्यापनं च विदधाति इदं ‘श्री लालबहादुरशास्त्री राष्ट्रिय संस्कृत विद्यापीठम्’ । अत्र विशिष्य भारतीय-दर्शनशास्त्रीयविचाराणां काचित् लोकप्रिया, निरपेक्षा आदर्शवादिनी च प्रणाली वर्तते ।

महता भारतीयदार्शनिकेन श्रीमता आचार्यशङ्करेण प्रतिपादितमिदं वेदान्तशास्त्रम् अद्वैतस्य अर्थात् व्यष्ट्यात्मना सह सर्वोच्चस्य समष्ट्यात्मनः ऐक्यं प्रतिपादयत् भारतस्य समृद्धपरम्परायाः विशिष्टं महत्त्वपूर्णं च अङ्गं विद्यते ।

अद्वैतवेदान्तशस्त्रस्य मुख्यविषयः एवं रूपेण सङ्क्षेपयितुं शक्यः यत्, ब्रह्मैव एकमात्रं पारमार्थिकं तत्त्वं सत्यं, तदतिरिक्तम् अन्यत् सर्वं मिथ्या भ्रमात्मकं ब्रह्मणि कल्पितम् चेति । यद्यपि चराचरमिदं जगत् वास्तविकं नास्ति अपि तु अवास्तविकायाः मायायाः प्रक्षेपणम्, तथापि व्यावहारिकदशायां व्यावहारिकोद्देश्यानामापूर्त्यर्थं पर्याप्तं वास्तविकत्वं दृश्यते ।

अद्वैतवेदान्तस्य विभागोऽयं छात्रेभ्यः उपनिषद्ब्रह्मसूत्रादिवेदान्तविषयम् अतिरिच्य उच्चस्तरीयैः अन्यशैक्षिकविचारैः सहितं समृद्धम् उत्कृष्टं च पाठ्यक्रमं प्रददाति ।

अस्य विभागस्य अध्यापकाः न केवलं छात्रान् स्वविषये शिक्षयन्ति, अपि तु विविधैः मठैः, शैक्षिकविभागैः संस्थाभिः च प्रचालिताषु सङ्गोष्ठीषु सक्रियं भागं गृह्णन्ति । एते च उत्कृष्टैः नानाशैक्षिकसंस्थाभिः शास्त्रार्थेभ्यः, विविधविचारसङ्गोष्ठीभ्यः, कार्यशालाभ्यः च अभ्यर्थिताः भवन्ति । एतदतिरिच्य अत्रत्याः शिक्षकाः आधुनिकपद्धत्याम् ई-पाठादिमाध्यमेन ज्ञानसम्प्रेषणे तत्परतया स्वात्मनः नियोजयन्ति ॥

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 के. अनन्तः प्रो. के. अनन्तः अद्वैतविभागः आचार्यः